________________
454
श्रावकभूमौ नैष्क्रम्यभूमिः
तृतीयध्यानभूमिसुखं तत्प्रजहाति । तेनाह । सुखस्य च प्राणात्पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त (ङ)गमात् । तत्र चतुर्थध्यानसमापत्तिकाले तस्मिन् [4] समये स ध्यायी सुखदुःखव्यतिक्रममनुप्राप्नोति । तेन य (च्) च पूर्वप्रहीणं, यश्चै ( च्चै ) तर्हि प्रहीयते । तस्य संकलनं कुर्व्वन्नेवमाह । सुखस्य च प्रहाणात्(द्), दुःखस्य च प्रहाणात्, पूर्व्वमेव च सौमनस्यदौर्मनस्ययोरस्त[ङ]गमात् । तन्न चतुर्थध्यानसमापत्तिकाले सुखस्य च प्राणाद्वितीयध्यानस [ 5 ] मापत्तिकाले दुःखस्य, तृतीयध्यानसमापत्तिकाले सौमनस्यस्या[S] स्तङ्गमात् प्रथमध्यानसमापत्तिकाले दौर्मनस्यस्य, अस्ति तावत्सुखदु:खस्य (योः) प्रहाणाददुः खासुखवास्य वेदना, न विशिष्टा भवति । तेनाह । अदुःखासुखा तस्मिन् समये प्रथमं ध्यानमुपादाय सर्व्वे अधोभू[6]मिका: अपक्षाला : प्रहीणा भवन्ति । तद्यथा वितर्क - विचाराः, प्रीतिराश्वासप्रश्वासाः । तेषां च. प्रहाणाद्या तत्रोपेक्षा । स्मृतिश्च सा परिशुद्ध [[ ] भवति । पर्यवदाता, येनास्य एतच्चित्तं चतुर्थध्यानसमापन्नस्यानिज्यं सन्तिष्ठते । सर्व्वेञ्जितायतनं ।
1. त्रीणि खल्वपि ध्यानानि सेञ्जितान्युक्तानि भगवता वितर्काद्यिपक्षालयोगात् । वितर्कविचाराश्वासप्रश्वासौ सुखदुःखसौमनस्यदौर्मनस्यानीत्यष्टावपक्षालाः । तैश्चतुर्थं ध्यानमकम्प्यमित्युक्तमभिधर्मे । वितर्क विचारप्रीतिसुखै रकम्पनीयत्वादानेञ्जयं चतुर्थमुक्त सूत्रे । अभिप्रायकः सूत्रनिर्देशो लाक्षणिकस्त्वभिधर्मे ।
(contd. on p. 455)