________________
चतुर्थं योगस्थानम्
453 लघ्वेव प्रज्ञया प्रतिविध्यति। सम्यगेव प्रजानाति । उत्पन्नोत्पन्नांश्च नाधिवासयति । प्रजहाति विनोदयति । व्यन्तीकरोति, चित्तमध्युपेक्षते। तेनाह स्मृतः संप्रजान[नि]इति । तस्य तस्मिन्समये ए[6]वमुपेक्षकस्य विहरता स्मृतस्य संप्रजन्य'स्यासेवनान्वयाबहुलीकारान्वयात्प्रीतिसहगतं प्रहीयते। तच्चित्तौद्धत्यकरं, निःप्रीतिकं, शान्तं, प्रशान्तं चेतसि
वेदितमुत्पद्यते । प्रीतिप्रातिद्वन्द्व्येन तस्मिन् समये 13A-7|| रूपकायेन, मनःकायेन वेदित ||[1] सुखं च प्रश्रब्धि
सुखं प्रतिसम्वेदयते। तृतीयाच्च ध्यानात् । अधस्तद्रूपं सुखं नास्ति नापि निरन्तरा उपेक्षा तृतीया[द्ध्यानादूर्ध्वं यदप्युपेक्षोपलभ्यते । न तु सुखं । तत्राध: सुखोपेक्षाभावादूर्ध्वं च सुखाभावात् । इदं तदायतनं यदुत तृतीयं ध्यानं यत्तदार्या [2] आचक्षते । यत्प्रतिलम्भविहारिणं पुद्गलमधिकृत्य स्मृतिमा (मान्) सुखविहारी तृतीयं ध्यानमुपसंपद्य विहरतीति आर्याः पुनः वृद्धाश्च वृद्धश्रावकाश्च । ___ तत्रातुल्यजातीयत्वात् । प्रतिपक्षस्य सुखस्य प्रहाणप्रतिपक्षानाख्यातः (क्षोऽनाख्यातः) । यदेव तत्प्रतिपक्षकृतं सुखप्रहाणं त[3]देवाख्यातं । कः पुनरसौ प्रतिपक्षः। यदुतोपेक्षा स्मृतिसम्प्रजन्यञ्च ।
तस्य च निषेवणाभ्यासात्तृतीयध्यानाच्चलितो यत्र 1. This might be emended as संप्रजानानस्य,