________________
445
चतुर्थं योगस्थानम्
- स भूयस्या मात्रया प्रहाणारामो विहरति । भावनारामः । शमथविपश्यनायुक्तः । पौनःपुन्येन च मीमान्सते । तस्य प्रतिपक्षं च भावयत: [2] कालेन कालं प्रहीणा [S] प्रहीणतां मीमान्समानस्य सर्व्वेभ्यः कामावचरेभ्यः क्लेशेभ्यश्चित्तं विसंयुज्यते । तावत्कालिक योगेन (1) न त्वत्यन्ताद्वीजसमुद्घातो भवति । तस्मिंश्च समये प्रयोगध्यानप्रयोगमार्गपर्यवसानगतः । सर्व क्लेशप्रातिपक्षिको मनस्कारः । . समुत्पन्नो भवत्ययमुच्यते प्रयोगनिष्ठो मनस्कारः (1) [3] तस्य च समनस्कारप्रत्ययं तद्धेतुकं प्रथमं ध्यानं समापद्यते । मौलप्रथमध्यानसहगतो यो मनस्कारः । अयमुच्यते प्रयोगनिष्ठाफलो मनस्कारः ।
तत्र प्राविवेक्ये मनस्कारे वर्तमानो, रतिसंग्राहके च विवेकजेन प्रीतिसुखेन कायं प्रतिप्रीणयति । कदाचित् केनचित् प्रतनुकसंमुखीभावयोगेन प्र ( 1 ) यो [4] गनिष्ठामनस्कारकालस्यारति[:] । कदाचित् कदाचित् ध्यानविपुलतरसंमुखीभावेन प्रयोगनिष्ठाफले पुनर्मनस्कारे वर्तमानस्य नास्ति किञ्चिदस्या (स्य) भवति । स्मारणीयं सर्वतः कायाद्युत (द्यदुत) विवेकजेन प्रीतिसुखेन स तस्मि (स्मिन्) समये विविक्तैः कामैः विविक्तं पापकैरकुशलैर्धमैः सवितर्कसविचारं विवेकजं [5] प्रीतिसुखं प्रथमं ध्यानं पंचा[ङ ्म]गमुपसम्पद्य विहरति । कामा-वचरप्रतिपक्षभावनाफले स्थितः कामवैराग्य [ ता]
-