________________
446
13B-5//
श्रावभूमी नैष्क्रम्यभूमिः
मनुप्राप्त इत्युच्ते ।
तत्र लक्षणप्रति संवेदिना मनस्कारेण [1] यत् प्रहातव्यं तत् सम्यक् प्रजानाति । प्रहातव्यस्य च प्रहाणाय प्राप्तव्यस्य च प्राप्तये चित्तं प्र [6] धित्ते । आधिमोक्षिकेण च मनस्कारेण प्रहाणाय प्राप्तये च सम्यक् प्रयोगमारभते । प्राविवेक्यमनस्कारेणाधिमात्रज्ञ शां( तां) जहाति । रतिसंग्राहकेण स क्लेशप्रकारं जहाति । मीमान्सामनस्कारेण प्राप्तिनिरभिमानतायां चित्तमवस्थापयति । प्रयोग [7] निष्ठेन मृदुं क्लेशप्रकारं जहाति । प्रयोगनिष्ठाफलेनैषां क्लेशप्रकाराणां भावितानां सुभावितानां भावनाफलं प्रत्यनुभवति ।
अपिच यश्च लक्षणप्रतिसंवेदी मन // [ 1 ]स्कार: । यश्चाधिमोक्षिकः । अयमुच्यते आनुलोमिको मनस्कारो[S]पि दूषणाप्रतिपक्षसगतः । यश्च प्राविवेक्यो मनस्कार:, यश्च प्रयोगनिष्ठो [S] यं प्रातिपक्षिको मनस्कारः । प्रहाण - प्रतिपक्षगवतः ( क्षगतः ) [ 1 ] तत्र यो रतिसंग्राहको मनस्कार : ( 1 ) अयं प्रातिपक्षिकश्च प्रसदनीयश्च [1]
तत्र यो ममान्सामनस्कारः अयं प्रत्यवे [2] क्षणामनस्कारः । इत्युच्यते । एवं सति षट्षु मनस्कारेषु चत्वारो मनस्काराः प्रविघ्ना वेदितव्याः । तद्यथा प्रातिपक्षिकः । प्रसदनीयः ।
आनुलोमिकः ।
प्रत्यवेक्षणीयश्चेति ।