________________
432
श्रावकभूमौ नष्क्रम्यभूमिः
सञ्चयसन्निविष्टमधिमुच्यते। कः पुनर्बाद: सर्वकायमयं (यम् । अयं)धातुप्रभेदप्रयुक्तस्य चार्थप्रभेदपर्यन्तः रूपिणां ता[5]बद्धातूनामाकाशधातोः पुनः । यत्पुनरस्य तस्मिन् प्रयोगे शमथविपश्यनाभावनायां विक्षेपाविक्षेपपरिज्ञावधानमिदमस्य ' संप्रजन्यस्य स्मृतिसमतायाश्च [1] यत्पुनः संवेगनिमित्तं, प्रसदनीयं च निमित्तं सूद्गृहीतं भवतीदमस्याभिध्यादौर्मनस्य विनयस्य, तस्यैवमातापिनो विहरतो यावत् (द्) द्वि[6]तीयलोके [अ]भिध्यादौर्मनस्यं पूर्वमेव सम्यक्प्रयोग[स]मारम्भकाले। सूक्ष्मचित्तप्रश्रब्धिर्दुरुपलभ्या प्रवर्त्तते । या तत्र शमथम्वा भावयतो, विपश्यनाम्वा प्रस्वस्थचित्तता, प्रस्वस्थकायता। चित्तंकायकर्मण्यता। इयमत्र कायचित्तप्रश्रब्धिः। तस्य सैव सूक्ष्मा चित्तैकाग्रता चित्तकायप्रश्रब्धिश्चाभिवर[1] नी औदारिकां [7] सूपलक्ष्यां चित्तैकाग्रता कायप्रश्रब्धिमावहति । यदुत हेतुपारं पर्यादानयोगेन, न तस्य, न चिरस्येदानीमौदारिकीचित्तकायप्रश्रब्धिश्चित्तैकाग्रता च। सूपलक्ष्योत्पत्स्यतीति। यावदस्या पूर्वनिमित्तं पूर्व निगौरवप्रतिभासमुत्पद्यते। न चैतद्वाध[8]लक्षणं। तस्यानन्तरोत्पादाद्यत्प्रहाणरतिविवन्धकारी (रि)णां क्लेशानां पक्ष्यं चित्तं (त्त)
दौष्ठुल्यं तत्प्रहीयते । तत्प्रतिपक्षेण च चित्तकर्मण्यता 1. Letters not legible.