________________
433
तृतीयं योगस्थानम्
चित्तप्रश्रधिरुत्पद्यते । तस्योत्पादात् कायप्रश्रब्ध्यु13A - 3 / / त्पादानुकूलानि // [1] वायूर्ध्व [ मु] क्तानि महाभूतानि तेषामवक्रमणहेतोर्यत्काय
काये [S]वक्रमन्ति ।
दौष्ठुल्यं तद्विगच्छति । प्रहाणरतिरिव [ द क ] रक्लेशापक्ष्यकायप्रश्रब्ध्या च तत्प्रतिपक्षिकया सर्व्वकाय: पूर्यते । स्यादा[ .." ] ध्याति ।
ततः प्रथमोपनिपाते चित्तौष्ठित्यं (चित्तदौष्ठुल्यं) चित्तसुमनस्कारप्रामोद्यसहगतालम्बनसाभिरामता च । चित्तस्य तस्मिन् समये ख्या [ 2 ]ति । तस्योर्ध्वं यो [s]सौ तत्प्रथमोपनिपाती प्रश्रब्धिवेगः । स शनैः शनैः परिश्लथतरो भवति । छायेवानुगता प्रश्रब्धिः ये च प्रवर्त्तते । यच्च तदौद्धित्यं (द्धत्यं ) चेतसस्तदप्यवहीयते । प्रशान्ताकारचित्तसालम्बने शमथो यस्तच्च (यस्स) प्रवर्त्तते । तत ऊर्ध्वमयं योगी आदिकर्मिकः समनस्कारो भवति । [स] मनस्कार इति च [3] संख्यां गच्छति । तत्कस्य हेतोः । रूपार्थ[r]नुरोधेन समाहितभूमिको मनस्कारः परीत्तस्तप्रथमतः प्रतिलब्धो भवति । तेनोच्यते समनस्कार इति ।
तस्यास्य समनस्कारस्यादिकर्मिकस्येमानि लिंगानि भवन्ति । परीत्तमनेन रूपावचरं चित्तं प्रतिलब्धं भवति । परीत्ता कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चित्तै [4] काग्रता, भव्यो भवति प्रतिबलः । क्लेशविशोधनालम्बनः 1. Letters not legible.