SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ 428 श्रावकभूमौ नष्क्रम्यभूमिः समतयात्मतुल्यत[6] या एषां सत्त्वानां मयाभिहितसुखोपसंहारकरणाय इतीदमस्याध्यात्मबहिर्धा काये कायानुपश्यनाया: [सत्त्वम्'] । चत्वारि चैतानि स्मृत्युपस्थानानि, संभिन्नस्कन्धालम्बनतया संभिन्नालम्बनं स्मृत्युपस्थानं भवति । रूपनिमित्तन्तु योगी उद्गृह्य वर्णसंस्थाननिमित्तं, विज्ञप्तिनिमित्तं च मित्रा[s]मित्रोदासीनपक्षाद् (क्षेभ्यो) [5]धिमुच्यते । तेने[7]दं कायस्मृत्युपस्थानमेव व्यावस्थाप्यते। सोधिमुक्तिमनस्कारं निश्रित्य, भूतमनस्कारमस्यावतरत्येवं च पुनरधिमुच्यमानो [अ]वतरति । यावदप्रमाणाः सत्त्वा एते मया [अ]धिमुक्ता। हितसुखगतेनाध्याशयेन। अतो [अ]प्रमाणतराः सत्त्वा ये मम पूर्वान्तमारभ्य मित्रा[5]मित्रोदासीनपक्षतया [अ]13A-2|| भ्यतीता ये मम मित्रतां //[1] गत्वा अमित्रतामुपगता, अमित्रतां गत्वा मित्रतां चोदासीनतां तोप (चोप)गतास्तदनेन पर्यायेण सर्व एव सत्त्वास्समसमा, नास्त्यत्र काचिन्मित्रता वा, अमित्रता वोदासीनता वा, परिनिष्पन्नेत्यनेनैव पर्यायेण तुल्यहितसुखोपसंहारता च करणीया। यथा पूर्वान्तमारभ्य एवमपरान्तमप्यारम्य, सत्यां संसृतौ [2] संसारे येपि च मया सत्त्वाः पूर्वान्तमारभ्य तन्मैत्रेण चित्तेनानुकम्पिता:। किं 1. MS. omits this. 2. MS. erased and blurred. 3. MS. illegible,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy