________________
तृतीयं योगस्थानम्
427
पक्षाच्च निमित्तमुद्गृह्य प्रतिरूपशयनासनगतो हि सुखाध्याशयगतेन मनस्कारेण समाहितभूमिकेन पूर्वमेकं मित्रमधिमोक्तव्यमेकममित्रमेकमु (क उदासी [3]नं (नः), तेषु च त्रि[षु]पक्षेषु तुल्यं हितसुखाध्याशयगतेन मनस्कारेणोपसंहारश्च करणीयः । सुखिता भवन्त्येते सुखकायाः सत्त्वा यदुतानवद्यकामसुखेन, अनवद्यसप्रीतिकसुखेन, अनवद्यनिष्प्रीतिकसुखेन। ततः पश्चाद् द्वे मित्राणि, त्रीणि, चत्वारि, पञ्च, दश, विंश, त्रिंशत्पूर्ववद्यावत्सर्वा दिशो विदिशश्च मित्रामित्र (त्रैः) पूर्णा अधिमुच्य[4]न्ते । निरन्तरा यत्र नास्त्यन्तरमन्ततो दण्डकोटीविष्कम्भनमात्रमपि यथा मित्रपक्षेणैवममित्रोदासीनपक्षण वेदितव्यं । स च मैत्रीप्रयोगं च न जहाति। नान्यत्र भावयन्नेव मैत्री स्मृत्युपस्थानेष्ववतरति । कथं पुनरवतरत्यधिमुच्यमानो [अ]वतरति । यथाहमप्यन्येषां मित्रसम्मतो [अ]मित्रसम्मतश्चोदासीनसम्मतश्च[1]अहमपि[5] सुखकामो दुःखप्रतिकूलः । इदमस्याध्यात्म काये कायानुपश्यनायाः [सत्त्वम्'] । एते [अ]पि सत्त्वाः परेषां मित्रभूता, अमित्रभूता, उदासीनभूताश्च, यथा मे ते [अ]पि सुखकामाः दुःखप्रतिकूला इदमस्य बहिर्धा कायानुपश्यनायाः [सत्त्वं'], यथाहं तथैते सत्त्वा, यथा मे आत्मनः सुखमेषणीयं सत्त्वानामात्म
1. MS. omits this.