________________
424
श्रावकभूमौ नैष्क्रम्यभूमिः
क्षीणा, ये चैतहि स्मृतिसंप्रमोषाच्चित्तक्षेपे सत्युत्पद्यन्ते [6] निमित्तवितर्कोपक्लेशालम्बनाधिपतेया वेदनादयश्चत्वारो[अ]रूपिणः स्कन्धास्तेषामा (या) पायिकतां तावत्कालिकतामित्व रप्रत्युपस्थायितां, सादीनवतां, सध्रुवतामनाश्वासिकतामपरिमुच्यस्वं । इदं भविष्यति । बहिर्धा वेदनाचित्तधर्मानुपश्यनायाः सत्त्वं, पुनरपि विपश्यनानिमित्तमुद्गृह्य सनिमित्ते संकल्पे [7] मनस्कारे स्थितः । ये सविकल्पसनिमित्तालम्बनाधिपतेया अध्यात्ममुत्पद्यन्ते । वेदनादयचत्वारो [ अ ]रूपिणः स्कन्धास्तेषां प्रतिक्षणं नवनवतां निष्पुराणतामन्यो[S]न्यतां पूर्ववदधिमुच्यस्व । इदं ते भविष्यति बहिर्धा वेदनायां चित्ते धर्मेषु धर्मानुपश्यनायाः [ सत्त्वं ] | एवं हि त्वमशुभाप्रयोगमधि [ 8 ] पति कृत्वा चत्वारिः स्मृत्युपस्थानान्यवतीर्णो भविष्यसि । . स्मृत्युपस्थाने, प्रयोगे [ अ ]पि च । ते कालेन कालं शमथविपश्यनायां प्रयोक्तव्यं । स त्वमेवमुपस्थितया स्मृत्या चतुर्षु स्मृत्युपस्थानेषु यं यमेव ग्रामं वा, 12A – 8 // निग // [1] मं वोपनिश्रित्य विहरसि, स त्वं तमेव ग्रामं वा, निगमं वा । तन्नित्येन चित्तेन, तत्प्रवणेन, तत्प्राभो (भा) रेण आलम्बनमालम्बननिमित्तमुत्सृजता पिण्डाय प्रविश चण्डस्य हस्तिनश्चण्डस्याश्वस्य, चण्डस्य गोश्चण्डस्य कुररस्य, अहिश्वभ्रस्थाणुकण्टकपत्वलप्रपातस्यन्दिकगूथ कठल्लपापिके या चर्या शयना
,