________________
तृतीयं योगस्थानम्
1
परीत्तेन वाधिमोक्षेण, महद्गतेन वा [ अ ] प्रमाणेन वाधिमुच्याधिमुच्याध्यात्मं चित्तं संशमय, इदं ते भविष्यति । बहिर्धा कायेन कायानुपश्यनाया, यदुत परसान्ततिकं बहिः कायमारभ्य, स त्वं पुनरप्यात्मनः अन्तः कायेऽशुभता परिभावितेन चेतसा [ 3 ] श्चाशुभतापरिभावितेन चेतसा परकाये चान्तर्बहिश्चाशुभतापरिभावितेन चेतसा [s] ऽत्मानं घ्रि (त्रि ) यमाणमधिमुच्यस्व, मृतम्वा पुनः श्मशाने [ अ ] भिर्निह्रियमाणमभिनिर्हतम्वा, श्मशाने च्छोरितं, छोरितम्वा विनील कावस्थं विपूयकावस्थं यावदस्थिशंकालिकावस्थमधिमुच्यस्व, इदं ते भविष्यत्यध्यात्मबहिर्धा का कायानुपश्यनायाः स [त् ] त्वं पुनरपि चत्वारोऽरूपिणः स्कन्धाः [4] श्रुतचिन्ताधिपतेयेन परिकल्पनिमित्तग्राहेण त्रिषु भागेष्वधिमुच्यस्व शमथपक्ष्ये, विक्षेपपक्ष्ये, विपश्यनापक्ष्ये च । यदाध्यात्मं चित्तमभिसंक्षिपसि तत्र निर्मिमित्तनिर्विकल्पोपशमाकारा . निर्व्यापारानुत्सुकासंक्षोभनिः परिदाह नैर्व त्यसुखसंज्ञाकारा अविक्षेपालम्बना वेदनादयश्चत्वारो [ अ ]रूपिणः स्कन्धाः । [5] प्रतिक्षणं प्रतिक्षणमन्यो[s]न्यतया नवनवनिष्पुराणतया प्रवर्तन्त इत्यधिमुच्यस्व इदं ते भविष्यत्यध्यात्मबहिर्धा वेदनासु, चित्ते धर्मेषु, धर्मानुपश्यनायाः सत्त्वं । ये पूर्व्वं विषयोपादाना, विषयालम्बना असमाहित भूमिपतिता अभ्यपतिताः
,
423