________________
aranभूमी नैष्क्रम्यभूमि:
सहगतेन चित्तेन, सप्रभाससहगतेन, प्रभास्वरेणानन्धकारेण शमथविपश्यनां भावय । एवं च ते शमथविपश्यनामार्गे आलोकसंज्ञां भावयतः । स चे [7] दादित एव अविस्पष्टोधिविमोक्षो भविष्यत्यालम्बने सम्य [गा ] भासः । स तेन हेतुना, तेन प्रत्ययेन, भावनाभासाद्विशिष्टता भविष्यति । प्रचुराभास(ग' ) ता च । स चेत्पुनरादित एव विस्पष्टो भविष्यति । प्रचुराभासः । स भूयस्या मात्रया विस्पष्टतरतां प्रचुराभासतरताच गमिष्यति । स त्वमेतत्सम्वेगनिमित्तेन [8] सूद्गृहीतेन, प्रसदनीयनिमित्तेन, शमथनिमित्तेन, विपश्यनानिमित्तेन, लोकनिमित्तेन, सूद्गृहीतेन कालमध्यात्मं चित्तं संशयमयन्कालेन कालं धर्मान्विचिन्वन्ति ( चिन्वन्), निमित्त - मात्रानुसारिण्या विपश्यनया स्मृत्युपस्थानेष्ववतर । 12B—7 || यदुताशुभाप्रयोग // [1] मेवाधिपतिं कृत्वा, एवं च पुनर्विचिन्वन् बहिर्धा षट्त्रिंशतो ( त्) द्रव्याणि कायात् केशादि प्रसावपर्यन्ता (न्तं ) निमित्तमुद्गृह्य अध्यात्ममेतानि सर्व्वाणि अशुचिद्रव्याण्यधिमुच्याध्यात्मंचित्तं संशमय ( स्व ' ), इदं ते भविष्यत्यध्यात्मं कायेन कायानुपश्यनायाः यदुतात्मनो [ []न्तः कायमारभ्य, स त्वं पुनरपि बहिर्धा अशुभानिमित्तेनोद्गृहीतेन विनी[2]लकं चाधिमुच्यस्व, यावदस्थि वा शंकलिकाम्वा, 1. This may be deleted.
422