________________
तृतीयं योगस्थानम्
425
सनपरि[2] वर्जना [1] अरक्षितस्ते आत्मा भवति । येषु च ते विषयनिमित्तेष्विन्द्रियाणि प्रेरयितव्यानि तेष्वनाभोगतया असंवृतानीन्द्रियाणि भवन्तु । येषु वा पुनर्निमित्तेष्विन्द्रियाणि प्रेरयितव्यानि । तेषु तेषूपस्थिता स्मृतिः । भवतु, यदुत क्लेशासमुदाचाराय । स त्वमेवं सुरक्षितेन कायेन, . सुसंवृतैरिन्द्रियः, सूप[3]स्थितयास्मृत्या, तद्गतेन मानसेन मात्रया पिण्डपातं परिभुक्ष्व। मितभागी (णी) च भव, साधं गृहस्थप्रव्रजितैर्युक्तका (भा)णी, कालभाणी, आर्जवभाणी। प्रशान्तभाणी। अधा च ते[त्वया] कथा सर्वेण सर्वं परिवर्जयितव्या। धामपि ते[त्वया कथा[]कथयता न विगृह्य कथा करणीया। तत्कस्य हेतो: [1] विगृह्य कथासं[4] रम्भानुयोगमनुयुक्तस्य पुरुषपुद्गलस्य विहरत: कथाबाहुल्ये चित्तं सन्तिष्ठते । तथा बाहुल्ये सत्यौद्धत्यमौद्धत्ये सत्यव्युपशमः । अव्युपशान्तचित्तस्याराच्चित्तं समाधर्भवति । न त्वमेवंचारी त्वरितत्वरितमनुत्सृष्टेनालम्बनेन मे[अ]द्यशमथविपश्यनायां यथोद्गृहीतेनैव निमित्तेन प्रतनुकारितया[5]वा, अन्तकारितया च । योगं कुरु, ते (स त्वम्) अग्निमथनप्रयोगेण च सातत्यसत्कृत्यप्रयोगतया प्रततकारी भव, एवं तु पुनश्चितं प्रणिधत्स्व । स चेद्यावदायुर्जम्बूद्वीपे सर्वेषां जंबूद्वीपकानां मनुष्याणामभूत्तत्सर्वमभिसमस्तं ममैकस्यैतर्हि