________________
414
श्रावकभूमौ नैष्क्रम्यभूमिः
विप्रतिसार उत्पद्यते । एवं चाविप्रतिसारिणा न चेतना करणीया, कच्चिन्मे प्रामोद्यं उत्पद्येत । अपि तु धर्मतैवेयं यदविप्रतिसारिण: प्रामोद्यमुत्पद्यते ।
अनेन तावदेकेन प्रामोद्याधिष्ठानेन द्वयाविप्रतिसार12B-5// पूर्वकं प्रामोद्य//[1] मुत्पादयितव्यः (म्)। उत्पाद्य
परेण संप्रहर्षाधिष्ठानेन मानसं संप्रहर्षय । स चेत् पुनर्भवसि पूर्वेणापरं परीत्तस्यापि विशेषाधिगमे प्रीतिर्जनयितव्या, भव्योहमस्मि, प्रतिबल: । एवं परिशुद्धशीलो भगवतः शिक्षासु सुप्रतिष्ठितः। दृष्टे धर्मे प्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य[2]साक्षाक्रियायै । अनेनाप्यधिष्ठानेन मानसं संप्रहर्षय ॥ स चेत्पुनर्लाभी भवति पूर्वेणापरं परचित्तस्यापि विशेषाधिगमस्य [1] स त्वं । तमधिपतिं कृत्वा परेषां च परिपूर्णे विशेषाधिगमे यदुत तथागते, तथागतश्रावकेषु वा, आत्मनश्चोत्तरिविशेषाधिगमसंप्रत्ययजातो मानसं संप्रहर्षय इति (1) [3] य एंभिराकारैर्मनसस्ते स प्रहर्ष इति । य एभिराकारैः स पूर्वप्रमुदितस्यैतर्हि प्रीतिमनस्कतेत्युच्यते । ___ एवं प्रसदनीयं निमित्तमुद्ग्राहयत्युद्ग्राहयित्वा (ह्य) पुनस्समनुशास्ति । एहि, त्वं, भद्रमुख, संवेजनीयेन निमित्तेन संतापितचित्तः, प्रसदनीयेन चित्तेनाभिष्यन्दितचित्तः प्रहायाभिध्यादौर्मनस्य (स्ये) [4] लोके बहुलं विहरिष्यसि । यत्र च यत्रालम्बने प्रयोक्ष्यसे ।