________________
तृतीयं योगस्थानम् . 415 शमथपक्षे, विपश्यनापक्षे वा, तत्र तत्रालम्बने चित्तं स्थितं भविष्यति । अध्यात्म सुसंस्थितं, कायचित्तप्रश्रब्धिचित्तैकाग्रताश्च प्रतिलप्स्यसे [1] एवं कृष्णपक्षविमुखीभूत: शुक्लपक्षाभिमुखीभूतस्य यदुत संवेगाभिष्यन्दनतया सर्व पुन[5] रस्यादीनवनिमित्तमुद्गृह्णीष्व यदुत निमित्तेभ्यो विपक्षेभ्यभ्यश्चोप क्लेशेभ्यश्च [1] ____ तत्र निमित्तानि रूपनिमित्तादीनि दश, वितर्काः कामवितर्कादयो[s]ष्टौ, उपक्लेशाः कामच्छन्दादयः (1) पञ्च । एवञ्च पुनस्तेष्वादीनवमुद्गृह्णीष्व । इतीमानि निमित्तानि व्यापारकारकानि (णि) चित्तस्य । इतीमे वितर्का औ[6]न्मुक्तसंक्षोभक[]रकाश्चित्तस्य[1] इतीमे उपक्लेशा अनुपशमक[T]रकाश्चित्तस्य । यश्च चित्तस्य व्यापारो निमित्तकृतः । यश्चोन्मुक्तसंक्षोभो वितर्ककृतः । यश्चानु (नू) पक्लेश[उप
क्लेश'] कृतः दुःखाविहार एष चित्तस्य, तस्मादिमे 12A-6|| निमित्तवितर्कोपक्लेशाः दुःखा अनार्या//[1]अनर्थोप
संहिताश्चित्तविक्षेपसंक्षोभकरा [:1] एवमादीनवनिमित्तमुद्गृह्य चित्तैकाग्रतायां चित्तस्थितौ, चित्ताविक्षेपः (पे) षड्भिराकारैनिमित्तमुद्गृहाण, यदुत निमित्तसंज्ञया निनिमित्ते वाव्यापारसंज्ञया, निर्विकल्पसंज्ञया, निर्विकल्पे चानौत्सुक्यासंक्षोभसंज्ञया, उपशमसंज्ञया,
1. Added by a separate hand.