________________
तृतीयं योगस्थानम्
सुष्ठु च, योनिशः प्रदधत्स्व । अनाश्वास्यमेतत्स्थानमविश्वास्यं । यत्संसारे मे संसरतः, अपरिनिर्वृतस्याविमुक्तचेतसः एता वि[ 3 ] पत्तिसम्पत्तयो, न मे संमुखीभावं, विमुखीभावं च गच्छेयुः । न वा अतोनिदानं मे दुःखमुत्पद्यते (ंद्येत ) । तीव्र ं, खरं, कटुकमनालापमलभ्यमेतत्स्थानं तस्मादेतत्सर्वार्थमधिपतिं कृत्वा प्रहाणरतिरतेन मे भवितव्यमप्रमत्तेन, एवं बहुलविहारिणो मे अप्येवास्यानर्थस्याक्रिया स्यादित्येवं 'योनिश: [4] प्रदधत्स्व एवं त्वं संवेजनीयं निमित्तमुद्गृह्य, पुनः प्रसदनीयं निमित्तमुद्गृह्णीष्व [ 1 ] एवं च पुनरुद् गृह्णीष्व [1] आत्मनः शीलानि प्रत्यवेक्षस्व । किं परिशुद्धानि मे शीलान्यपरिशुद्धानि [वा' ], या (यो) मे स्मृतिसंप्रमोषाद्वा, अनादराद्वा क्लेशप्रचुरतया वा, अव्युत्पन्नतो वास्ति कश्चिच्छिक्षाव्यतिक्रमः । व्यतिक्रान्ते वा मे ( मया) शिक्षा [] [5] थाधर्मं प्रतिकृत्याध्याशयेन च पुनरकरणाय चित्तमुत्पादितं । कश्चि( कच्चि ) न्मे कर्तव्यं कृतमकर्त्तव्यश्च (व्यं वा ) । कृतं समासतः । कच्चिदध्याशयसम्पन्नो [ अ ] स्मि प्रयोगसम्पन्नश्च । यदुत । शिक्षापदेषु । एवं न ते प्रत्यवेक्षमाणेन । स चेत्परिशुद्धः शीलस्कन्धः, न पुनस्ते चेतना करणीया । कच्चिन्मे विप्रतिसाः [6] र उत्पद्येतापि तु धर्मतैवेयं । यदेवं विशुद्धशीलस्या
न
413
1. A separate hand adds this.