________________
412
श्रावकभूमौ नष्क्रम्यभूमिः
परचक्रकृतम्वा तद्ग्रामपर्यापन्नस्य ज[6]नकायस्य भोजनव्यसनमग्निदाहकृतम्वा, उदकापहरणकृतम्वा, कुविहितप्रविणाशकृतम्वा, कुप्रयुक्तकर्मान्तप्रलुज्यनाकृतम्वा, अप्रियदायादाधिगमकृतम्वा, कुलांगार विप्रणाशकृतम्वा [1]नो चेच्छृणोषि । अपितु प्रत्यक्ष पश्यसि । नो वान्यस्मि (स्मिन् ) ग्रामनिगमे, नो च तस्मिन्नेव [7] ग्रामनिगमे, न परेषाम (रैर) पि त्वात्मनैव स्पृष्टो भवसि । शारीरिकाभिर्वेदनाभिर्दुःखाभिस्तीवाभिरिति विस्तरेण पूर्ववत् ।
सर्वं दृष्ट्वा श्रुत्वा चैवं चित्तं संवेजय । दु:खो बतायं संसारः, कृच्छ आत्मभावप्रतिलब्धो यत्रेमा एवं रूपात्ममश्च (रूपा आत्मनश्च)परेषाञ्च विपत्तय
उपलभ्यन्ते । यदुतारोग्यविपत्तिरपि, जातिविपत्ति 12A-5/1 ||[1] रपि, भोगविपत्तिरपि, व्याधिाधिधर्मता च ।
मरणं, मरणधर्मता च। अपि चैकेषां शीलविपत्तिरपि, दृष्टिविपत्तिरपि यतो निदानं सत्त्वा दृष्टे च धर्मे दु:खविहारिणो भवन्ति । सम्पराये च दुर्गतिगामिनः । याश्च सम्पत्तयो दृष्टधर्मसुखविहाराय, अभिसम्पराये च, सुगतिगमनाय ता अप्यनित्या[:], तासामपि अनित्य[2]ता प्रज्ञायते । विपत्तिश्चेत् संमुखीभूता, विमुखीभूता तस्मिन्समये सम्पत्तिः । असंमुखीभूतायामपि विपत्तौ दुर्लभा सम्पत्तिविनाशधर्मिणी च, एवं च पुनश्चित्तमुद्वेजयित्वा (ज्य) साधु च,