________________
411
तृतीयं योगस्थानम्
तमेनं योगी यत्र यत्र नियोजयति । शमथपक्षे वा विपश्यनापक्षे वा तत्र तत्र सूपश्लिष्टं च भवति । सुलग्नं चाविकलं चाविकम्प्यं च । यथाभिप्रेतार्थसम्पत्तये च परैति ।
तत्र [3] कथमादिकर्मिकः तत्प्रथमकर्मिको मनस्कारभावनायां विनियुज्यते । 1 यथायं विनियुज्यमानः प्रतिपद्यमानश्च स्पृशति । तत्प्रथमतः प्रहाणाभिरति चित्तस्यैकाग्रतां । इह योगज्ञो योगप्रयुक्तेनादिकर्म( तमादिकमि) क : (कं) । तत्प्रथमत एवमववदते । एहि, त्वं, भद्रमुख, त्रीणि निमित्तो [T]हकानि (णि) - कारणानि निश्रित्य यदुत दृष्टम्वा [4] श्रुतम्वा, चिन्तानुमानाधिपतेयं वा । परिकल्पं पञ्च निमित्तान्युद्गृह्णीष्व [1] सम्वेजनीयं, प्रसदनीयमादीनवनिमित्तमालोकनिमित्तं वस्तुरूपणानिमित्तश्व [] स चेत्स योगप्रयुक्त आदिकर्मिको रागचरितो भवत्यशुभाविनेयः कथं स पञ्चानां निमित्तानामुद्ग्रहणाया [व] बोध्यते । एवम [व] बोध्यते । एहि, त्वं भद्रमुख | [5] यं यमेव ग्रामम्वा निगमम्वोपनिश्रित्य विहरसि । स चेदन्यत्र ग्रामे, निगमे वान्यतमं पुरुषम्वा, स्त्रियम्वा आबाधिकं शृणोषि । दुःखितम्बाढग्लानं मृतम्बा कालगतं, पुरुषम्वा स्त्रियम्वा [1] अपि तु तस्य पुरुषस्य वा, स्त्रिया वान्यतमान्यतमं मित्रामात्यज्ञातिसालोहितं, 1. cp. Bodhi, pp. 272-4.