________________
406
श्रावकभूमौ नष्क्रम्यभूमिः
वर्जयति । सम्यक्प्रयोगे' च शिक्षते । स तत्प्रथमत एकाग्रतां प्रहाणाभिरति चाधिगमिष्यामीति चतुभिर्मनस्कारैः प्रयुज्यते । कतमैश्चचतुभिश्चित्तसन्ता पनीयेन मनस्कारेण, चित्ता[2] भिष्यन्दनीयेन, प्रश्रब्धिजनकेन, ज्ञानदर्शनविशोधकेन च मनस्कारेण [1]
तत्र चित्तसन्तापनो मनस्कारः कतमः [:] [1] आह । येनायं मनस्कारेण। संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्ययं चित्तसन्तापनो मनस्कारः ।
तत्र कतमश्चित्ताभिष्यन्दनो मनस्कारः। येनायं प्रसदनीयेन मनस्कारेण चित्तमभिप्रमोदयत्ययं (1) [3] चित्ताभिष्यन्दनो मनस्कारः । __तत्र कतमः प्रश्रब्धिजनको मनस्कारः। आह । येनायं मनस्कारेण कालेन कालं चित्तं सम्वेजनीयेषु धर्मेषु संवेजयित्वा (संवेज्य) कालेन कालमभिप्रमोदनीयेषु धर्मेषु चित्तमभिप्रमोदयित्वा (मोद्याऽ)ध्यात्म शमथयति । निनिमित्तायां । निर्विकल्पकतायामेवं स्थापयत्येकानां स्मृति प्रवर्तयति ये[4]नास्य हेतुना,
1. cp. प्रयोगसम्पत् कतमा । यथापि तद्बोधिसत्त्वः शीलेष्वखण्डचारी भवति
परिशुद्धकायवाङ्मनःसमुदाचारो नाभीक्ष्णापत्तिको विवृतपापश्च भवति । पञ्चभिः प्रयोगैर्बोधिसत्त्वस्य सर्वसम्यक्प्रयोगसंग्रहो वेदितव्यः । कतमैः पञ्चभिः । अनुरक्षणाप्रयोगेण । अनवद्यप्रयोगेण । प्रतिसंख्यानबलप्रयोगेण । अध्याशयशुद्धिप्रयोगेण। नियतपतितप्रयोगेण च। ibid, p. 195, see also,
para 4.