________________
तृतीयं योगस्थानम्
407
येन प्रत्ययेन कायचित्तदौष्ठुल्यप्रतिपक्षण कायचित्तह्लादनकरी कायप्रश्रब्धिश्चित्तप्रश्रब्धिश्चोत्पद्यते । अयमुच्यते प्रश्रब्धिजनको मनस्कारः। .. तत्र ज्ञानदर्शन विशोधनो मनस्कारः कतमः । येन मनस्कारेण कालेन कालं चित्तेन तथाध्यात्म संशयमिति (संशमयति) तेन पुन: पुनरभीक्ष्णं अधिप्रशं धर्मविपश्य[5]नायां योगं करोति । यदुत तमेवाध्यात्म चेतःशमथं निश्रित्य[1] अयमुच्यते ज्ञानदर्शनविशोधनो मनस्कारः।
कतमः कालेन कालं संवेजनीयेषु धर्मेषु चित्तं सम्वेजयत्येवमस्य तच्चित्तं तप्तं भवति । सन्तप्तमुद्विग्नं संविग्नं यदुतास्रवस्थानीयेषु च धर्मेषु । सर्वसंवेजनीयानि स्थानानि। कतमानि । आह [1] च[6] त्वारि। तद्यथा आत्मविपत्तिः, परविपत्तिश्च, वर्तमाने समवहिते संमुखीभूते योनिशो मनसिकारा
न्वयात्सम्वेजनीयं स्थानं भवति । तत्रात्मसम्पत्तिः । ' परसम्पत्तिश्च । अभ्यतीते क्षणे निरुद्ध विगते विपरिणते योनिशो मनसिकारान्वयात्सम्वेजनीयं
1. In the MSA, XI.8-12, eighteen manaskāras have been
mentioned : धातुनियतः कृत्यकरः आश्रयविभक्तोऽमुक्ति निवेशकरश्च्छन्दजनकः समाधिसंनिश्रितो ज्ञानसंप्रयुक्तः संभिन्नालम्बनो विभिन्नालम्बनः । परिज्ञानियतो भावनाकारप्रविष्टः शमथविपश्यनामार्गस्वभावोऽनुशंसमनस्कारः प्रतीच्छकः प्रायोगिकमनस्कारो वशवर्तिमनस्कारः परीत्तमनस्कारो विपुलमनस्कारश्च । MSA (Vrtti), p. 56; for further details and elaboration, see ibid, pp. 56-8.