SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ तृतीयं योगस्थानम् 405 चित्तस्थितौ नवमस्याकारस्य यदुत समाहिततायाः [i] स च तं परिनिष्पन्नं । समाधि निश्रित्य अधिप्रशं धर्मविपश्यनायां प्रयुज्यते । तस्य तस्मिन्समये धर्माविपश्यतः [1] स्वरसवाहन एव मार्गो भवत्यनाभोगवाहनः । अनभिसंस्कारेण विपश्यना परिशुद्धा, पर्यवदाता, शमथानुयोग (त) कल्प (ल्पि)ता परिगृहीता प्रवर्त्तते । यथैव शमथमासते [ते'] नोच्यते शमथश्चास्यविपश्यना चोभे मित्रीभूते समयुगम्वर्तते । शमथविपश्यनायुगनद्धवाही च मार्गों भवतीति ।। अनन्तरोद्दानं ।। निमित्तग्राहपर्येष्टिः प्रत्यवेक्षामुखानुगा । अर्थतस्तु लक्षणैः पच्छै: (पतैः)कालैश्च सह युक्तिभिः ॥ अनुरूपं तथाभ्यासमाशैथिल्यं विपर्ययः । (अनुरूपस्तथाभ्यास आ शैथिल्याद् विपर्ययः) कालोपलक्षणा तुष्टिरवैधुर्यं प्रयोगता ॥ सम्यक् प्रयोगता चैव नवाधारा द्विधा मता। स्वभावतो निदानाच्च तथादीनवदर्शनात् ॥ प्रतिभाविता चैव शुद्धिरावरणस्य //[1] हि ॥ तत्र मनस्कारभावना कतमा[1] आहादिकर्मिकस्तत्प्रथमकर्मिक एवं व्यापिनि' लक्षणे व्यवस्थापिते एकाग्रतायामा (आ)वरणविशुद्धेश्च मिथ्याप्रयोगं च 12B-3|| 1. Letter damaged by pin-hold, 2. Wayman reads zurfa,
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy