________________
402
श्रावकभूमौ नैष्क्रम्यभूमिः
कृष्णपक्षतः। परिवर्जनीयमेतदिति । निदानपरिवर्जना[6]च्च पुनरस्य परिवर्जनेति । निदानं पर्येषते। अपरिवर्जनाच्च पुनरस्य परिवर्जनीयस्य को दोष इत्यत आदीनवं पर्येषते । परिवर्जितस्य चायत्यां कथमनुत्पादो भवतीत्यतः प्रतिपक्षं भावयत्येवमनेनावरणेभ्यश्चित्तं परिशोधितं भवति ।
स तत्र यावद्देशनाबाहुल्यं विपश्यनानुलोमिक तावद्विपश्यनाबाहुल्यं, यावद्विवपश्यना [7] बाहुल्यं नान्याद (s) नन्ता वेदितव्या। यदुत एभिरेव त्रिभिर्मुखैः षण्णां वस्तूनामेकैकश्या (स्या अ)नन्ताकारप्रवेशनयेन, यथा च यथा विपश्यना सम्यक्प्रयुक्तस्य
पृथ्वृद्धिवैपुल्यतां (विपुलतां) गच्छत्यभ्यासपारिशुद्धि12A-3// बलमधिपतिं कृत्वा, तथा, तथा, शमथपक्षस्यापि ||[1]
कायचित्तप्रश्रब्धिजनकस्य पृथुवृद्धिवैपुल्यता (विपुलता) वेदितव्या। तस्य यथा यथा कायः प्रश्रभ्यते, चित्तं च, तथा तथालम्बनचित्तैकाग्रतायाश्च यदुताश्रय[]विवर्द्धयते । यथा चित्तैकाग्रता विवर्धते तथा तथा काय: प्रश्रभ्यते, चित्तं च, इत्येतौ द्वौ धर्मावन्योन्यं निर्व तावन्योन्यं प्रतिबद्धो[ ]यदुत चित्तैकाग्रता, प्रत्यक्षज्ञानोत्पत्तिः । ___ तत्र कियता[2]अशुभा प्रतिलब्धो (धा) भवति । कियता यावदानापानस्मृति: प्रतिलब्धा भवतीति ।
1. च may be added here.