________________
तृतीयं योगस्थानम्
पेयालं । अतश्चास्य योगिनः अशुभाप्रयोगस्यासेवनान्वयात् भावनान्वयाद्बहुलीका रान्वयाच्चरतो वा, विहरतो वा विषयसंमुखीभावे [ अ ] पि निमित्तप्रत्यवेक्षणयापि प्रकृत्यैवानभिसंस्कारेण बहुतराशुभतासंप्रख्यानं । यथापि [ 3 ] तत्सुभावितत्वादशुभायाः कामरागस्थानीयेषु धर्मेषु चित्तं [2] प्रस्कन्दति । न प्रसीदति । नाधिमुच्यते । उपेक्षा संतिष्ठते । निव्वित्प्रतिकूलता वेदितव्यं (या) । योगिनानुप्राप्तो(प्तं ) मे, अशुभाप्राप्तं मे, भावनाफलमियता अशुभा प्रतिलब्धा भवति । विपर्ययेण [ अ ] प्रतिलब्धा वेदितव्या । यथा अशुभा एवं मैत्री, इदंप्रत्ययता -
403
धातुप्रभेदः । आनापान
प्रती [4] त्यसमुत्पाद: । स्मृतिश्च वेदितव्या । तत्रायं विशेष: बहुतरं मैत्रचित्तता ख्याति । न प्रतिघनिमित्तं । व्यापादस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति विस्तरः । बहुत रमनित्यता, दुःखता, नैरात्म्यं ख्याति, न नित्यसुखसत्त्वाय दृष्टिसहगतं सम्मोहनिमित्तं मोहपर्यवस्थानीयेषु धर्मेषु । [5] चित्तं (न) प्रस्कन्दतीति विस्तरः । बहुतरं नानाधातुकता [त' ] देकधातुकता कायपि (चि)त्तप्रभेदसंज्ञा ख्याति । न त्वेव पि (चि) त्तसंज्ञा, मानपर्यवस्थानीयेषु धर्मेषु चित्तं न प्रस्कन्दतीति
1. This may be deleted.
2. This may be added here.