________________
398
श्रावभूमी नैष्क्रम्यभूमि:
।
तत्र
कदाचित्परीत्तमेवाधिमुच्यते । कदाचिन्महद्गतमेव । प्रमाणमेवं महद्गते । प्रमाणे वेदितव्यं । रूपिणां धर्माणां यन्निमित्तं प्रतिबिम्बं प्रतिभासं (सः) तदौदारिकं निर्माणसदृशमरूपिणाम्वा पुनर्धर्माणां नामसंकेतपूर्व्वकं यथानुभावाधिपतेयं । प्रतिभासमियमुच्यते । सम्य [ 3 ] वप्रयोगता । सैषा नवविधा शुक्लपक्ष्या शमथविपश्यनानुलोमा प्रयोगता वेदितव्या । एवं पर्यायेण नवाकारैव विलोमता । स एष कृष्णशुक्लपक्षव्यवस्थानेनाष्टादशविधप्रयोगो भवतीयमुच्यते
एकाग्रता ॥
तत्रावरणविशुद्धिः कतमा । आह । चतुभिः कारणैरेवं सम्यक्प्रयुक्तो योगी [4] आवरणे स्वश्चित्तं परिशोधयति । स्वभावपरिज्ञानेन, निदानेनादीनवपरिज्ञानेन, प्रतिपक्षभावनया च ।
तत्र कतम आवरणस्वभावः । आह । चत्वार्यावरणानि । परितमना निवरणं, वितर्क : 3
1. cp. AKB, VIII. 1 : केयमेकाग्रता नाम । एकालम्बनता । एवं तहि चित्तान्येवैकालम्बनानि न चैतसिकं धर्मान्तरमिति प्राप्नोति । न चित्तान्येव समाधिः । येन तु तान्येकाग्रा वर्तन्ते स धर्मः समाधिः । सैव चित्तैकाग्रता । see also AKV; cp. Adv, p. 70 : चित्तस्यैकाग्रता समाधिश्चित्तस्थितिलक्षण: 1; cp. Vsm., III.3; YB with Tattvavaiśāradi, p. 109; cp. Adv., p. 404 : शमथः खलु साङ्गा कुशला चित्तैकाग्रता ध्यानमित्युच्यते ।
2. See, Yogasthāna, I, p.
3. वितर्क has been defined as चित्तौदारिकता वितर्कः । AKB,
(contd. on p. 399)