________________
399
तृतीयं योगस्थानम्
आत्मसंप्रग्रहश्चेति । तत्र परितमना या नैष्क्रम्यप्राविवेक्यप्रयुक्तस्य क्लिष्टा उत्कण्ठा, अरतिः । [5] स्पृहणा, दौर्मनस्यमुपायासः । तत्र निवरणं कामच्छन्दादीनि पञ्चनिवरणानि । तत्र वितर्कः कामवितर्कादयः । क्लिष्टा वितर्काः । तत्रात्मसंप्रग्रहो यदणुमात्रका (णा) वरमात्रेकेन (ण) ज्ञानदर्शनस्पर्शमात्र केना (णा) त्मानं संप्रगृह्णाति । अहमस्मि लाभी, अन्ये च न तथेति । [6] पूर्ववद्विस्तरेण वेदितव्यमय
मावरणस्वभावः ।
तत्र परितमना यावत्षनिदानानि । तद्यथा पूर्वकर्माधिपत्या, व्याधिपरिक्लेशाद्वा आश्रयदौर्बल्यं । अतिप्रयोगः । अर्धप्रयोगः । आदिप्रयोगः । क्लेशप्रचुरता | विवेकानभ्यासश्च निवरणस्य, वितर्का - [7]णामात्मसंप्रग्रहस्य निवरणस्थानीये, अवितर्कस्थानीये, स्वात्मसंप्रग्रहस्थानीयेषु धर्मेष्वयोनिशोमनसिकारो बहुलीकारनिवरणवितर्क संप्रग्रहाणां निदानं
( contd. from p. 398)
II.33 : वितर्कः 'चेतनां वा निश्रित्य प्रज्ञां वा पर्येषको मनोजल्पोऽनभ्यूहाभ्यूहावस्थयोर्यथाक्रमं सा च चित्तस्यौदारिकता, AKV, II, p. 56; see also, pp. 55, 57-8 : वितर्को नाम चित्तौदार्यलक्षणः संकल्पद्वितीयनामा विषयनिमित्तप्रकारविकल्पी संज्ञापवनोद्धतवृत्तिः, औदारिकपञ्च विज्ञानकाय प्रवृत्तिहेतुः । Adv., p. 81; cp. Asm., p. 10; Tvbh., pp. 40-1: वितर्क : पर्येषको मनोजल्पः प्रज्ञाचेतनाविशेषः स एव चित्तस्यौदारिकता स्थूलता वस्तुमात्रपर्येषणाकारत्वात् । ' '; see YB, I.17 : वितर्कश्चित्तस्यालम्बने एव स्थूल आभोग: ।; cp. AS, III.198 sq.; see BDD, p. 42.