________________
तृतीयं योगस्थानम्
.
397
तत्र विपश्यनानिमित्तमुद्गृहीतवतः । पुनर्जेयवस्तुनिमित्तालम्बनं स चेदयमेकांशेनालम्बनमधिमुच्यते । न पुनः पुनर्विभावयेत् । नास्याधिमोक्ष उत्तरोत्तरः । परिशुद्धः, पर्यवदातः । प्रवर्तते । [7] यावज् ज्ञेयवस्तुप्रत्यक्षोपगमाय । यतश्च पुन: पुनरधिमुच्यते । पुनः पुनर्विभावयति । ततोस्योत्तरोत्तरोधिमोक्षः । परिशुद्धतरः, परिशुद्धतमः प्रवर्तते । यावज्ज्ञेयवस्तुप्रत्यक्षोपगमाय । तद्यथा चित्रकरश्चित्रकरान्तेवासी वा तत्प्रथमश्चित्रकर्मणि प्रयुक्तः स्यात् । स आचार्यस्यान्तिकाच्छिक्षापूर्वंगमं रूपक[8]मादाय दृष्ट्वा दृष्टवा प्रतिरूपकं करोति । कृत्वा कृत्वा विभावयति, विनाशयति । पुनरेव च करोति । य यथा यथा भङ क्त्या भङ क्त्या करोति । तथा तथास्योत्तरं रूपकं परिशुद्धतरं पर्यवदाततरं ख्याति । एवं हि सम्यक्प्रयुक्तः
कालान्तरेणाचार्यसमतां गच्छति । तत्प्रतिविशिष्ट12A-2|| ताम्वा[1]सचेत्पुनरभं (नर्भ? )|| [1] क्त्या तद्रूपकं तस्यै
वोपरिष्टात्पौनःपुन्येन कुर्यात् । न जन्वन्धस्य तद्रूपकपरिशुद्धि निगच्छेदेवमिहापि नयो वेदितव्यः । तत्र यावदालम्बनमधिमुच्यते । तावद्विभावयति। न त्ववश्यं यावद्विभावयति । तावदधिमुच्यते। परीत्तमधिमुच्यते, परीत्तमेव विभावयति । एवं यावन्महद्गतप्रमाणं। परीत्तं पुन[2] विभावयित्वा (भाव्य)