________________
394
श्रावकभूमो नष्क्रम्यभूमिः
उपेक्षायाः कालो भावनायै । इयं कालप्रयोगता।
तत्र कतमा उपेक्षा लक्षणा (उपलक्षण) प्रयोगता [1]तान्येव निमित्तानि सुगृहीतानि भवन्ति । सुसंलक्षितानि येषां सूद्गृहीतत्वात् । यदा आकांक्षते । तदा व्युत्तिष्ठते समाधिगोचरं (1) प्रतिबिम्बमुत्सृज्य समाहितभूमिकाप्राकृतालम्बन[5]मनसिकारेण [1] इयमुपलक्षण (1) प्रयोगता।
तत्र कतमा असंतुष्टप्रयोगता। असंतुष्टो भवति कुशल-कुशलर्धमैः । अप्रतिवा (भा) णि (णी) च । प्रहासरुत्तरं प्रणीततरं स्थानमभिप्रार्थयमान[]रुपी बहुलं विहरतीति । नाल्पमात्रकेना (णा)वरमात्रकेना(णा)न्तरा विषादमापद्यते। अत्युत्तरे करणीये । [6] इयमसंतुष्टप्रयोगता। ___ तत्र कतमा अविधुरप्रयोगता। शिक्षापदसमादानम्वा न खण्डीकरोति, न छि (च्छि)द्रीकरोति । न च शिशुमुदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा निमित्तग्राही भवत्यनुव्यंजनग्राही, भोजने च समकारी भवति । जागरिकानुयुक्तश्चाल्पार्थोल्पकृत्योल्पव्यासकः। चिरकृतचिरभाषित [7]मनुस्मर्ता भवत्यनुस्मारयिता। इत्येवंभागीया धर्मा अविधुरप्रयोगतेत्युच्यते । अनुकूला एते धर्माश्चित्तैकाग्रताया: । अविदूरा, न च चित्तक्षेपाय सम्वर्त्तन्ते । तेन बहिर्धा व्यासंगाय, नाध्यात्मचित्ता