________________
तृतीयं योगस्थानम्
393
नीयेनालम्बनेनोद्गृहीतेन चित्तसंहर्षणा संदर्शना समादापना [1] तत्र प्रग्रहनिमित्तं येन च प्रसदनीयेनालम्बनेन निमित्तेन चित्तं प्रगृह्णाति । यस्य वीर्यारम्भः तदानुलोमिकस्तत्र प्रग्रहकालः लीनं चित्तं लीनत्वाभिशंकिनि प्रग्रहस्य कालो भावनाय ।
तत्रोपेक्षा[3]कतमा ।' या आलम्बने असंक्लिष्टचेतसः चित्तसमता शमथविपश्यनापक्षे । प्रस (श)ठस्वरसंवाहिता। कर्मण्यचित्तस्य च कर्मण्यता, . चित्तस्यानुप्रदानमनाभोगक्रिया। तत्रोपेक्षानिमित्तं । येन चालम्बनेन चित्तमध्युपेक्षते। या च तस्मिन्नेवालम्बने वीर्योद्रेकाप्रतिकायता। तत्रोपेक्षाकालः
शमथविपश्यना[4]पक्षालयौ (लौ)द्धत्यविनिर्मुक्ते चेतसि 1. cp. उपेक्षा चित्तसमता चित्तानाभोगता, AKB, II.25; Yasomitra
mentions three kinds of उपेक्षा (AKV, ibid, II, p. 44) उपेक्षा चित्तसमतेति । यद्योगाच्चित्तं सममनाभोगं वर्तते सोपेक्षा संस्कारोपेक्षा नाम। त्रिविधा हि उपेक्षा वेदनोपेक्षा संस्कारोपेक्षा अप्रमाणोपेक्षा चेति । cp. Tvbh., p 34 : उपेक्षा चित्तसमता चित्तप्रशठता चित्तानाभोगता। एभिसिभिः पदैरुपेक्षाया आदिमध्यावसानावस्था द्योतिता। तत्र लय औद्धत्यं वा चेतसो वैषम्यम् । तस्याभावादादौ चित्तसमता। ततोऽनभिसंस्कारेणाप्रयत्नेन समाहितचेतसो यथाभियोगं समस्यैव या प्रवृत्तिः सा चित्तप्रशठता। सा पुनरवस्था लयौद्धत्यशङ्कानुगतचिरभावित्वात् । ततो भावनाप्रकर्षगममनात्तद्विपक्षदूरीभावात् तच्छङ्काभावे लयौद्धत्यप्रतिपक्षनिमित्तेप्वाभोगमकुर्वतोऽनाभोगावस्था चित्तस्यानाभोगता। इयं च सर्वक्लेशोपक्लेशानवकाशसंनिश्रयदानकर्मिका ।; Adv., p. 72 : उपेक्षा चित्तसमता चित्तानाभोगः संस्कारनिमित्तानाभोगमध्युपेक्षानिमित्तप्रवणता।; For ten kinds of upeksa, see A. S., III.348-353; 254; Adv., p. 140, f.n. 1.