________________
तृतीयं योगस्थानम्
_377
रस्ति । कथमिदानीम्विपक्षं धर्म मनसिकुव॑तः । तद्विपक्षालम्बनेन क्लेश उत्पद्यते । एवमुपपत्तिसाधनयुक्त्या पर्येषते । तस्यैवं भ[8]वति । प्रसिद्धा धर्मता खल्वेषा अचिन्त्यधर्मता। यदशुभा भावना कामरागस्य प्रहाणप्रतिपक्ष इति । सा च चिन्तयितव्या। न विकल्पयितव्या। अधिमोक्तव्या । एवं धर्मतायुक्त्या अशुभताम्पर्येषते। इयं तावदशुभाप्रयुक्तस्य त्रिमुखी षड्वस्तुप्रभेदालम्बना
विपश्यना। 11A-8|| कथं मै||[1]त्रीप्रयुक्तो विपश्यन्षड्वस्तूनि
पर्येषते। मैत्यधिपतेयं धर्ममधिपतिं कृत्वा हितसुखाध्याशयगतस्य सर्वेषु सुखोपसंहाराधिमोक्षलक्षणा मैत्रीत्येतमर्थप्रतिसम्वेद्यर्थं पर्येषते । स एवमर्थप्रतिसंवेदी पुनर्विचिनोतीत्ययं मित्रपक्षोयममित्रपक्षोयमुदासीनपक्षः। सर्व एते पक्षाः परसन्तानपति[2]तत्वाद्वाह्यं वस्त्वित्यधिमुच्यते । मित्रपक्षं वा अध्यात्मममित्रोदासीनपक्षं बहिर्धा एवं च वस्तुनि मैत्री समन्वेषते।
स पुनर्विचिनोति । य एते त्रयः पक्षाः अदुःखासुख (त)ः। सुखकामास्ते सुखिता भवन्त्विति । तत्रोपकारलक्षणं मित्रं । अपकारलक्षणममित्रं । तदुभयपरीतलक्षणमुदासीनपक्षं (ण उदासीनपक्षः) । ये पुनरेते[3]अदुःखासुखिताः पक्षाः सुखकामास्तेषां