________________
378
श्रावकभूमौ नैष्क्रम्यभूमिः
त्रिविधा सुखकामता प्रज्ञायते। एके कामसुखमिच्छन्त्येके रूपावचरं सप्रीतिकमेके निष्प्रीतिकं । तत्र ये कामसुखेन विहन्यन्ते । अमित्रं तदुभयविपरीतलक्षणा (णं)तेन कामसुखिनो भवन्त्वनवद्येन [1]एवं सप्रीतिकेन निष्प्रीतिकेन च सुखेन वेदितव्यम् । [4] एवं स्वलक्षणतो मैत्री समन्वेषते । ___स पुनः प्रविचिनोति । यश्च मित्रपक्षो, यश्चामित्रपक्षो, यश्चोदासीनपक्षः । तुल्यचित्तता तु मया करणीयेति । समचित्तता। तत्कस्य हेतोः । यस्तावन्मित्र[पक्ष']स्तत्र मे न दुष्करः । सुखोपसंहारः । योप्ययमुदासीनपक्षः । तत्रापि ये (मे) नातिदुष्करः । यस्त्वयममित्रपक्षः। (तत्रायममि[5]त्रपक्षः ।) तत्रातिदुष्करः। तत्र तावन्मया सुखोपसंहारः करणीयः । कः पुनदिः । मित्रपक्षे वोदासीनपक्षे वा। तत्कस्य हेतोः । नात्र कश्चिद्यः आक्रोशते वा, आक्रुश्यते वा। रोषयति वा, रोष्यते वा । भण्डयति वा, भण्ड्यते वा। ताडयति वा, ताड्यते वा। अन्यत्राक्षराण्येतानि रवन्ति । शब्दमात्र[] माषमात्रमेतदपि च [6]तथा. संभूतोयं कायो रूपी
औदारिकश्च[]तुर्महाभूतिको यत्र मे स्थितस्येमे एवं रूपाः स्पर्शाः कामन्ति । यदुत शब्दसंस्पर्शा वा ।
1. MS. omits this. 2. This may be deleted.