________________
तृतीयं योगस्थानम्
369
कथं पक्षं पर्येषते । द्विविधः पक्षः [4] कृष्णपक्षः शुक्लपक्षः [1] कृष्णपक्षं दोषतः । आदीनवतः । शुक्लपक्षं पुनर्गुणतोऽनुशंसतश्चैवं [पक्षं] पर्येषते ।
कथं कालं पर्येषते । त्रयः कालाः [1] अतीतो[s]नागतो वर्तमानश्च । एवमेतदभूदतीतेध्वनि एवमेतद्भविष्यति । अनागतध्वनि । एवमेतदेतहि । प्रत्युत्पन्नेध्वनीत्येवं कालं पर्येषते ।। ___ कथं [5] युक्तिम्पर्येषते। चतस्रो युक्तयः । [1] अपेक्षायुक्तिः, कार्यकारणयुक्तिः, उपपत्तिसाधनयुक्तिधर्मतायुक्तिश्च ॥ तत्रो (ना)पेक्षायुक्त्या संवृति च संवृतितः । परमार्थं च परमार्थतः । निदानं च निदानतः। पर्येषते । काय (य) कारणयुक्त्या कारित्रं धर्माणां पर्येषते । अयन्धर्मः, इदं कारित्रं, अयमिदं - [6] कारित्र इति [1] उपपत्तिसाधनयुक्त्या त्रीणि प्रमाणानि पर्येषते । आप्तागममनुमानं प्रत्यक्षं च[1] किमस्ति (1) अत्रात्मा, नास्तीति किं प्रत्यक्षमुपलभ्यते न वेति, किमनुमानेन प्रयुज्यते न वेति । तत्र धर्मतायुक्तया तथाभूततां धर्माणां प्रसिद्धधर्मतामचिन्त्यधर्मतामवस्थितधर्मतामधिमुच्यते, न चिन्त[7]
यति । न विकल्पयत्येवं युक्तिम्पर्येषते ।।' 1. On काल, vide MKV, XIX; CS, XI. 2. Wayman adds hereafter पर्येषणया. 3. On the four Yuktis, see Asm., p. 81; supra, p. 196.