________________
368
श्रावकभूमौ नैष्क्रम्यभूमिः
श्रुतमुद्गृहीतं । धर्म अववादस्यासमाहितभूमिकेन मनस्कारेण मनसि करोति । न चिन्तयति । न तुलयति। नोपपरीक्षते। इयन्निमित्तमात्रानुचरिता भवति । ___ यदा पुनश्चिन्तयति। तीरयति तुलयत्युपपरीक्षते। तदा पर्येषणानु[2] चरिता भवति।
यदा पुनस्तीरयित्वा उपपरीक्ष्य यथा व्यवस्थापितमेव प्रत्यवेक्षते । तदा प्रत्यवेक्षणानुचरिता भवतीयं त्रिमुखा (खी) विपश्यना।
कतमानि षड्वस्तुप्रभेदालम्बनानि । - स पर्येषमाण: । षड्वस्तूनि पर्येषते। अर्थ, वस्तु, लक्षणं, पक्षं, कालं, युक्तिञ्च पर्येष्यन्नेतान्येव (पर्येषमाण एतान्येव) प्रत्यवेक्षते । [3]
कथमर्थं पर्येषते। अस्य भाषितस्यायमर्थो [अ] स्य भाषितस्यायमर्थ (त) इत्येवमर्थं पर्येषते । . . ___ कथं वस्तु पर्येषते । द्विविधं वस्तु [1] आध्यात्मिकं बाह्यञ्च [1] एवं वस्तु पर्येषते । ।
कथं लक्षणं पर्येषते। द्विविधं । स्वलक्षणं
सामान्यलक्षणं च । एवं लक्षणं पर्येषते । 1. cf. स्वभाव एवैषां स्वलक्षणम् · · · 'सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शून्यतानात्मते सर्वधर्माणाम् । AKB, VI.14; see also AKV, p. 529; later on in the Buddhist Nyāya works the conception of svalakșana was related to that of क्षणभङ्ग and अपोह, see JMN, p. 1, 217 sq.; 543 sq.