________________
तृतीयं योगस्थानम्
367
चतुविधा विपश्यना। कतमा। [5] भिक्षुधर्मान् विचिनोति । प्रविचिनोति । परिवितर्कयति । परिमीमान्सा (मांसा)मापद्यते । यदुताध्यात्म चेतःशमथं निश्रित्य [1]
कथं च विचिनोति। चरितविशोधनं वा आलम्बनं । कौशल्यालम्बनं वा, क्लेशविशोधनं वा। यावद्भाविकतया विचिनोति । यथावद्भाविकतया। प्रविचिनोति । सविकल्पेन [6]मनस्कारेण प्रज्ञासहगतेन । निमित्तीकुर्वन्नेव परिवितर्कयति । सन्तीरयत्यधिमीमांसामापद्यते । ___सा खल्वेषा विपश्यना त्रिमुखी षड्वस्तुप्रभेदालम्बना वेदितव्या (:)। कतमानि त्रीणि (1)
मुखानि [1] विपश्यना यनिमित्तमात्रानुचरिता। 11A-6|| विपश्यना पर्येषणानुचरिता, पर्येषि||[1] ता च ।
प्रत्यवेक्षणानुचरिता।
तत्र निमित्तमात्रानुचरिता [i] येन (यया)
1. On विपश्यना, see, Yogasthāna, II, p. 287; Bodhi, p. 77;
| PTSD, s.v. Vipassana. 2. cp. supra, p. 196 sq.; Asm., pp. 80-1; cp. Bodhi, p. 24 :
(तत्त्वार्थपटलम्) : तत्त्वार्थः कतमः । समासतो द्विविधः । यावद्भाविकताञ्च धर्माणामारभ्य या धर्माणां भूतता यावद्भाविकताञ्चारभ्य या धर्माणां सर्वता। इति भूतता सर्वता च धर्माणां समासतस्तत्त्वार्थो वेदितव्यः। स पुनरेष तत्त्वार्थः प्रकारभेदतश्चतुर्विधः। लोकप्रसिद्धो युक्तिप्रसिद्धः क्लेशावरणविशुद्धिज्ञानगोचरो ज्ञेयावरणविशुद्धिज्ञानगोचरश्च । see, pp. 24-7.