SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ 366 श्रावकभूमी नैष्क्रम्यभूमिः बलेन। परिचयबलेन च। ___ तत्र श्रुतचिन्ताबलेन तावत् । यच्छ्रतं, या चिन्ता[ता]मधिपतिं कृत्वा चित्तमादित आलम्बने स्थापयति । [2] तत्रैव च। प्रबन्ध'योगेन संस्थापयति । तत्रोपनिबद्धं चित्तं स्मृतिबलेन प्रतिसरन्नवस्थापयति। उपस्थापयति । ततः संप्रजन्यबलेन निमित्तवितर्कोपक्लेशेषु प्रसरमननुप्रयच्छन् दमयति । शमयति। वीर्यबलेन । तदुभयसमुदाचारं च नाधिवासयति । एकोतीकरोति। परिचय[3]बलेन समाधत्ते [1] . तत्र नवाकारायां चित्तस्थितौ चत्वारो मनस्कारा वेदितव्याः। बलवाहनः स[३]छिद्रवाहनो निछि(श्छि) द्रवाहनः। अनाभोगवाहनश्च । तत्र स्थापयतः, संस्थापयतो बलवाहनो मनस्कारः। अवस्थापयत, उपस्थापयतो, दमयतः, शमयतः; व्युपशमयतः, सच्छिद्रवाहनो मनस्कारः। एकोती[4]. कुर्वतो निछि (श्छि) द्रवाहनो मनस्कारः। समादधतः । अनाभोगवाहनो मनस्कारो भवति । एवमेते मनस्कारायां चित्तस्थितौ शमथपक्ष्या भवन्ति । यः पुनरेवमध्यात्म चेतःशमथस्य लाभी विपश्यनायां प्रयुज्यते । तस्यत एव चत्वारो मनस्कारा विपश्यनापक्ष्या भवन्ति ॥ . 1. Syllable illegible.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy