________________
तृतीयं योगस्थानम्
361
118-4// मीर्या ||[1]पथ इति । तथा चारिका[का]लं' निषद्यया
शक्तो व्यतिनामयितुं । ना चास्यानेनेर्यापथेन कायक्लेशो भवति । तथा असाधारणोयमीर्यापथोन्यतीथिकैः । परप्रवादिभिः । तथा परे अनेनेर्यापथेन निषण्णं दृष्ट्वा अत्यर्थमभिप्रसीदन्ति बुद्धश्च बुद्धश्रावकैश्चायं ईर्यापथो निषेवितश्चानुज्ञातश्च [1] इमा[2]नि पंचकारणानि । संपश्यति निषीदति । पर्यङ्कमाभुज्य ऋजु कायं प्रणिधाय ।
तत्र कतमा कायसंज्ञता। कायस्य स्पष्टोच्छितप्रणिहितता। चित्तेन न निःशोच्येन कुहनापगतेनार्जवेन । तत्र ऋजुना कायेन प्रगृहीतेन स्त्यानमिद्धं चित्तं न पर्यादाय तिष्ठति । निष्कुहकेन चित्ते बहिर्धा विक्षे[3]पो न पर्यादाय तिष्ठति । प्रतिमुखां (खीं) स्मृतिमुपस्थाप्य । ___ तत्र कतमा प्रतिमुखा (खी) स्मृतिः। यामुपस्थापयति योनिशो मनसिकारसंप्रयुक्ता स्मृतिः प्रति]मुखे (खी)त्युच्यते। सर्वकृष्णपक्षप्रमुखतया, प्रतिविलोमतया । अपि च समाधिनिमित्तालम्बना प्रतिभालम्बना स्मृति: प्रतिमुखे (खी) त्यु[4]च्यते । सर्वसमाहितभूमिकालम्बनप्रमुखतया[7] इयमुच्यते ईर्यापथसम्पत् ।
1. MS. blurred, letters indistinct. 2. MS. dim, letters illegible.