________________
362
श्रावभूमी नैष्क्रम्यभूमिः
व्यपकर्षः कतमः । आह । द्विविध: कायव्यपकर्षः । चित्तव्यपकर्षश्च । तत्र कायव्यपकर्षो यो गृहस्थप्रव्रजितैः सार्धमविहारिता ॥ तत्र चित्तव्यपकर्षः यः क्लिष्टमव्याकृतं च मनस्कारं च वर्जयित्वा । [ 5 ] समाहितभूमिकं वा समाधिसंभारप्रायोगिकं वा मनस्कारं भावयति । कुशलमर्थोपसंहितमयमुच्यते चित्तव्यपकर्षः । तत्र स्थानसम्पत् या चेयमीर्यापथसम्पत् । यश्चायं कायव्यकर्षः । यश्च चित्तव्यपकर्षः (यश्चित्तव्यपकर्षस') तदेकत्यमभिसंक्षिप्य प्राविवेक्यमित्युच्यते ।
कता कता । [6] आह । पुनः पुनः स्मृतिसभागालम्बना प्रवाहानवद्यरतियुक्ता । चित्तसन्ततिर्या सा समाधिरित्युच्यते । कुशलचित्तैकाग्रतापि [1] किं पुनः पुनरनुस्मरति । आह । ये धर्मा उद्गृहीता [ : ] श्रुता, या चाववादानुशासनी' प्रतिलब्धा भवति । गुरुभ्यस्तामधिपतिं कृत्वा समाहितभूमिकनिमित्तं संमुखीकृत्य तदालम्ब[7]नां प्रवाहयुक्तां स्मृति
।
1. Repetition, may be deleted.
2. cp. AK, VIII. 1; portion on एकाग्रता and notes; on समाधि see supra, pp. 267-8; Bodhi, pp. 77, 177; the four dhyānas, see Ada., pp. 94-7.
3. On avavāda and anuśāsana, see supra, pp. 258-61; Asanga discusses this point at length in MSAB and names one of the Chapters अववादानुशासन्यधिकार (XIV, p. 90 sq).