________________
360
श्रावभूमौ नैष्क्रम्यभूमि:
पुनरपरं ये ते आनुलोमिका जीवितपरिष्काराश्चीवरादयः । ते [अ]त्राल्पकृच्छ्रेण सम्पद्यन्ते । येनायं पिण्डकेन न क्लाम्यति । यत्रासम्विधान इयं चतुर्थी स्थानसम्पत् । पुनरपत्रं (रं) कल्याणमित्रपरिगृहीतं भवति । तद्रूपा अत्र विज्ञा: सब्रह्मचारिणः प्रतिवसन्ति । येस्याकृतानि नोत्तानीकुर्व्वन्ति । गंभी[7]रं चार्थपदं प्रज्ञया प्रतिविध्य सुष्ठु च प्रकाशयन्ति । ज्ञानदर्शनस्य विशुद्धये । इयं पश्वमी
स्थानसम्पत् ।
तत्र कतमा ईर्यापथसम्पत् । दिवा चंक्रमेण वातिनामयति । निषद्य यावता एवं रात्याः प्रथमं यामं, मध्यमेन (च) यामे दक्षिणेन पार्श्वेन (ण) 3 शय्यां कल्पयति । पश्चिमे च यामे लघुलघ्वे [8] वोत्तिष्ठते । चक्रमनिषद्यया वातिनामयति । तस्मिन्निदं सम्पन्ने शयनासने, तथा बुद्धानुज्ञाते मञ्चे वा, पीठे वा, तृणे वा, संस्तरणे वा निषीदति पर्यङ्कमाभुज्य तु । केन कारणेन पञ्च कारणानि समनुपश्यन् पण्डितेन कायेन प्रश्रधिरुत्पद्यते । प्रश्रब्ध्युत्पत्तये अनुकूलोय
1. cp. Bodhi, p. 133 : चत्वार ईर्यापथाः । चंक्रमः स्थानं निषद्या शय्या च । तत्र बोधिसत्त्वः चंक्रमनिषद्याभ्यां दिवा रात्रौ वा आवरणीयेभ्यो धर्मेभ्यश्चित्तं परिशोधयंस्तन्निदानं परिश्रमजं दुःखमधिवासयति । न त्वकाले पार्श्वमनुप्रयच्छति मंचे वा पीठे वा तृणसंस्तरे वा पर्णसंस्तरे वा ।
2. Wayman reads च ता एवं.
3. Wayman reads पाक्षेण.