________________
तृतीयं योगस्थानम्
359
- प्राविवेक्यं कतमत् ।' या स्थानसम्पदीर्यापथसम्पत् । तत्र स्थानसम्पत्तद्यथा। अरण्यम्वा, वृक्षमूलम्वा, शून्यागारम्वा-तत्र पर्वतकन्दरं वा, गिरिगुहा वा, पलालपुंजानि वा शून्यागारमित्युच्यते । तत्र वनप्रस्थं वृक्षमूलमित्यु[3]च्यते । तत्राभ्यवकाशं, श्मशानं, प्रान्तश्च शयनासनमरण्यमित्युच्यते । तदिदमभिसमस्य स्थानं वेदितव्यं । यदुतारण्यवृक्षमूलशून्यागारपर्वतगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि। स्थानसम्पत्पुनः पञ्चविधा। इह स्थानमादित एवाभिरूपं भवति । दर्शनीयं [4] प्रासादिकमारामसम्पन्नं, वनसम्पन्नं, पुष्करिणीसम्पन्नं, शुभं, रमणीयं, नोत्कूलनिकूल, न स्थाणुकण्टकधानं । न बहुपाषाणशर्करकपाल। यत्रास्य दृष्टवा चित्तमभिप्रसीदति । वासाय, प्रहाणाय, प्रयोगाय । हृष्टचित्तः । प्रमुदितचित्तः। प्रहाणं प्रदधाति इयं प्रथमा स्थानसम्पत् । पुनरयं (रिद)[5]न दिवा अल्पविलोकं भवति । रात्रावल्पशब्दवन्यनिर्घोषमल्पदंशमशकवातातपसरीसृपसंस्पर्शमियंद्वितीया स्थानसम्पत् । यत्पुनरपरं सिंहव्याघ्र-द्वीपि-तस्करपरचक्रमनुष्यामनुष्यभयभैरवापगतंभवति । यत्र विश्वस्तो निःशंकितमानसः । सुखं
स्पर्श विहरति । इतीयं तृतीया स्था[6]नसम्पत् । 1. See, ibid, p. 12,