________________
320
श्रावकभूमी नष्क्रम्यभूमिः
विन्यस्त[4]योगस्य विहरतः । उत्तरे[अ]धिगमे । श्रद्धानता। अभिसंप्रत्ययः ।
तत्र प्रश्रब्धिः। यच्छ्रद्धाप्रमादपूवंगमं प्रामोद्यं, प्रीतिः, प्रीतमनसश्चानुपूर्वा पापकाकुशल (1)धर्मपक्षस्य दौष्ठुल्यस्य प्रतिप्रश्रब्धिः । ।
तत्र स्मृतिर्या नवाकारा नवाकारायाश्चित्तस्थितेः शमथपक्ष्यायाः संग्राहिका। ... छंदसं[5]प्रजन्ये। या विपश्यनापक्ष्या प्रज्ञा । तत्र चेतनायाश्चित्ताभिसंस्कारः। प्रहीणाप्रहीणतो मीमान्स (मांस)मानस्य यश्चित्ताभिसंस्कारः शमथविपश्यनानुकूलः कायकर्म वाक्कर्म समुत्थापयति । ___ तत्रोपेक्षया अतीतानागतप्रत्युत्पन्नेषु पापकाकुशल () धर्म (1) स्थानीयेषु चरतः चित्ताभिसंक्लेशश्चि[6]तंगमता। आभ्यां द्वाभ्यां कारणाभ्यां प्रहीणतामनुशयानां परिच्छिनत्ति जानाति । यदुत विषयविपरोक्षया चेतनया विषयविपरोक्षया चा (चो) पेक्षया । इमे [अ]ष्टौ प्रहाणसंस्कारा भवन्ति । ते चैतेष्टौ (स चैषोऽष्ट) प्रहाणसंस्कारयोगो भवत्यनुशयसमुद्घाताय । तत्र छन्द (च्छन्द)श्च, एत (ष) एव यो व्यायामः, इदं वीर्य, या[7] श्रद्धा सा शुद्धा, या च प्रश्रब्धिर्या च स्मृतिर्यच्च संप्रजन्यं । या च चेतना, या चोपेक्षा । अय (इदं ? ) मुपादाय । तदिदं सर्वमभिसमस्य ये च पूर्वकाश्छन्दसमाधयः । ये च इमे प्रहाणसंस्काराः प्रहीणे