________________
312
श्रावकभूमौ नष्क्रम्यभूमिः
[6]नां पापकानां अकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणां स्थितये । असंमोषाय भावनापरिपूरये । तच्च तथा अध्यात्ममभिसंक्षिप्तं लीनत्वाय परैति । लीनत्वाभिशंकि चैवं पश्यति। तदा अन्यतमान्यतमेन प्रग्राहकेन (ण) निमित्तेन प्रसदनीयेन प्रतिगृह्णाति । संहर्षयत्ये[7] वं चित्तं प्रगृह्णाति ।
कथं प्रदधाति । पुनरुद्धतमौद्धत्याभिशंकि वा प्रग्रहकाले पश्यति । तदा पुनरप्यध्यात्ममभिसंक्षिपति । शमथाय प्रणिदधाति । तान्येतानि भवन्ति । चत्वारि सम्यक्प्रहाणानि । कृष्णपक्ष्याणां धर्माणामनुत्पन्नानामनुत्पादाय । उत्पन्नानां च प्रहाणाय [च्छन्दो व्यायामो वीर्यारम्भः । चित्त[8]प्रग्रहः । प्रदधनमिमे द्वे सम्यक्प्रहाणे शुक्लपक्ष्याणां धर्माणामनुत्पन्नानामुत्पादाय [i]
विस्तरेण द्वे सम्यक्प्रहाणे वेदितव्ये । तद्यथा कृष्णपक्ष्याणां तत्रैकं सम्वरणप्रहाणं यदुत्पन्नानाम्पापकानाम
कुशलानां धर्माणां प्रहाणाय [च्] छन्दं जनयतीति 10A-5// विस्तरेण । द्वितीयं प्रहाणप्रहाणं यद//[1]नुत्पन्नाना
मनुत्पादाय [च्] छन्दं जनयतीति विस्तरेण, उत्पन्नं हि संवरयितव्यं । पापकं च वस्तु । अनुत्पन्नं च यत्तदसमुदाचारतः प्रहीणमेवं तदसंमुखीभावतः प्रहातव्यमिति कृत्वा । प्रहीणस्य प्रहाणं प्रहाणप्रहाण[] ।