________________
द्वितीयं योगस्थानम्
313
... तत्र भावनाप्रहाणमेकं यदाह। अनुत्पन्नानां कुशलानां धर्माणामुत्पादायेति विस्तरे[2]ण यावच्चित्तं प्रगृह्णाति, प्रदधातीति । तथा हि कुशला धर्मा आसेव्यमाना, भाव्यमाना, अप्रतिलब्धाश्च प्रतिलभ्यन्ते । प्रतिलब्धाश्च सम्मुखीक्रियन्ते । __ तत्रानुरक्षणाप्रहाणमेकं। यदाह । उत्पन्नानां कुशलानां धर्माणां स्थितये । विस्तरेण यावच्चित्तं प्रगृह्णाति । प्रदधाति । तथा हि प्रतिलब्धेषु संमुखी[3] कृतेषु च। कुशलेषु धर्मेषु यावत्प्रमादवर्जना अप्रमादनिषेवणा च । सा कुशलानां धर्माणां स्थितये, असम्मोषाय, भावनापरिपूरये। एवमनुत्पन्नाः कुशला धर्मा अनुरक्षिता भवन्त्ययं तावत्सम्यक्प्रहाणानां विस्तरविभागः। ___ समासत (सार्थ): पुनः कतमः। आह । कृष्णशुक्लप[T]क्षिक[4]स्य त्यागात्पुनर्वस्तुन: । प्राप्तये पूर्वमेव स्पृहायुक्तेन भवितव्यं । पर्यवस्थानप्रहाणाय च । अस्त्याशयसम्पत्प्रयोगसम्पच्च। परिदीपिता भवति । तत्रास्या (स्त्या) शयसम्पत् । छन्दजननतया, प्रयोगसम्पत्पुन: व्यायामवीर्यारम्भचित्तप्रग्रहाप्रमादधनैः । एतावच्च योगिना करणीयं । [5] यत्प्रहातव्यस्य वुस्तन: प्रहाणाय, प्राप्तव्यस्य वस्तुनः प्राप्तये पूर्वमेव स्पृहाजातेन भवितव्यं, पर्यवस्थानप्रहाणाय, वीर्यमारब्धव्यमनुशयप्रहाणाय च, कालेन कालं शमथप्रग्रहोपेक्षानि