SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् 311 धर्माणाम्प्रतिलब्धानां सम्मुखीभूतानामासेवनान्वयात्परिनिष्पत्ति निष्ठागमनमधिकृत्याह । भावनापरिपूरये इति । तत्र च स्पृहामुत्पादयति । चित्तं प्रणिधत्ते । तीव्रा चास्य स्थि[3]तिकामता असम्मोषकामता । भावनापरिपूरिकामता प्रत्युपस्थिता भवति । अयमुच्यते । उत्पन्नानां कुशलानां धर्माणां स्थितये असंमोषाय भावनापरिपूरये[च्छन्दः । तत्र व्यायच्छत इति । प्रतिलब्धानां संमुखीभावाय वीर्यमारभते । अप्रतिलब्धानां प्रतिलम्भाय [1] तत्र व्यायच्छते । उत्पन्नानां स्थितये, असंमोषा[4]य, वीर्यमारभते । भावनापरिपूरये, अपि च मृदुमध्यानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च स्थितये । . असंमोषाय व्यायच्छते । अधिमात्राणां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय, उत्पन्नानां च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनाया[5]मेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्नानां पापकानामकुशलानां धर्माणामनुत्पादाय । एवं विस्तरेण यावदुत्पन्नानां कुशलानां धर्माणामनुत्पन्नानामुत्पादाय । उत्पन्नानाञ्च यावद् भावनापरिपूरये वीर्यमारभते । तत्र चित्तं प्रगृह्णाति । यदा तच्चित्तं शमथभावनायामेकाग्रतायां प्रयुक्तं भवति । अनुत्पन्ना1. cf. Bodhi, pp. 59.1, 77.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy