________________
288
श्रावकभूमौ नष्क्रम्यभूमिः
प्रत्यवेक्षते । अनेन वर्तमानेन मनस्कारेण अनागतज्ञेयं प्रत्यवेक्षते। वर्तमानापि मनस्कारावस्था उत्पन्ना स्थितेत्युच्यते । अनागता पुनः ज्ञेयावस्था। [5]अनुत्पन्नत्वादुत्पादाभिमुखत्वाच्च निषण्णेत्युच्यते । यत्पुनराह । निषण्णो वा निपन्नं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेणातीतस्य ज्ञेयस्य प्रत्यवेक्षणा परिदीपिता। प्रत्युत्पन्ना हि मनस्कारावस्था। निरोधाभिमुखा निषण्णेत्युच्यते । अतीता पुनः निरुद्धत्वाज्ञयावस्था निपन्नेत्युच्यते । [6]यत्पुनराह। पुरतो वा गच्छन्तं प्रत्यवेक्षत इत्यनेन प्रत्युत्पन्नेन मनस्कारेण । अनन्तरनिरुद्धस्य मनस्कारस्य प्रत्यवेक्षा परिदीपिता। तत्र य उत्पन्नोत्पन्नो मनसिकारो[अ]नन्तरनिरुद्धः स पुरतो यायी [1] तत्र अनन्तरोत्पन्नः। अनन्तरोत्पन्नो मनस्कारः । नवनवो[5]नन्तरनिरुद्धस्यान[7]न्तरनिरुद्धस्य ग्राहकः । स पृष्ठतो यायी। तत्र शमथं च विपश्यनां च भावयन्स्तदुभयपक्ष्यामालोकसंज्ञां भावयति । · इयं संज्ञाभावना।
तत्र बोधिपक्ष्यभावना कतमा।' यः षट (सप्त)
1. The thirty-seven bodhipaksika-dharmas find mention
in Milinda, p. 232 : देसेन्ता च भन्ते नागसेन सब्बेपि तथागता सत्ततिसबोधिपक्खियधम्मे देसेन्ति..'; A. N., III.249 : भावनं अनुयुत्तस्स . . . 'नेव चित्तं विमुच्चति । तं किस्स हेतु ? अभावितत्ता तिस्स
(contd. on p. 289)