________________
द्वितीयं योगस्थानम्
287
पक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुनः संज्ञां विपश्यनापक्ष्यां भावयति । विपश्यनायां प्रयुक्तः । पश्चात्पुर इममेव कायं यथास्थितं यथाप्रणिहितं ऊर्ध्वं पादतलादधः केश[3]मस्तकात्पूर्णं नानाविधस्याशुचे: प्रत्यवेक्षते । सन्त्यस्मिन्काये केशा रोमाणीति पूर्ववत् । तत्र पश्चात्पुनः । संज्ञी तथा तदेकत्येन प्रत्यवेक्षणानिमित्तमेव । साधु च, सुष्ठु च, सूद्गृहीतं भवति । सुमनसीकृतं, सूत्कृष्टं। सुप्रतिविद्धं । तद्यथा स्थितो निषण्णं प्रत्यवेक्षते । निषण्णो वा निपन्नं । पुरतो वा गच्छन्तं, पृष्ठ[4]तो गच्छन्प्रत्य
वेक्षते । सा खल्वेषा त्रैयध्विकानां संस्काराणां __. प्रतीत्यसमुत्पन्नानां विपश्यनाकारा प्रत्यवेक्षा
परिदीपिता ॥ तत्र यत्तावदाह-स्थितो निषण्णं
(contd. from p. 286)
लम्बनान्यधिमुच्यमानः अध्यात्मसमाधिनिमित्तेषु चित्तं संस्थापयति अवस्थापयति विस्तरेण यावदेकोतीकरोति समाधत्ते । अयमुच्यते शमथः ।; for the four kinds of शमथ see, ibid, p. 177; see also, Asm.,
p. 75; Vsm., p. 499. 1. विपस्सना ति सङ्घारपरिग्गाहकाणं ANA, loc. cit.; सङ्खारे अनिच्चतो
दुक्खतो अनत्ततो विपस्सति, BDD, p. 39, f.n.; see, Vsm., p. 499; Asm., p. 75; Bodhi, p. 77 : विपश्यना कतमा। तेनैव पुनः शमथपरिभावितेन मनस्कारेण यथाचिन्तितानां धर्माणां निमित्तमनसिक्रिया विचयः प्रविचयो धर्मप्रविचयः विस्तरेण यावत्पाण्डित्यं प्रज्ञाचारः । इयमुच्यते
विपश्यना, see also p. 177. 2. cp. Vsm., p. 163 sq.; cp. अशुभसंज्ञा Adv., 371-2; Vsm.,
III.105, VI.1; p. 120 sq.