SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 284 श्रावकभूमौ नैष्क्रम्यभूमिः कृत्वा सुविशुद्धमालम्बनज्ञानं । कार्यपरिनिष्पत्तिकाले प्रवर्तते । अभिरतिश्च [1] तेनोच्यते चत्वारि योगस्य करणीयानीति ॥ तत्र कति योगाचाराः। आह त्रयस्तद्यथा । आदिकमिकः, कृतपरिचयः। अतिक्रान्त[5]मनस्कारश्च ॥ ___तत्रादिकमिको योगाचारः। मनस्कारादिकमिकः । क्लेशविशुद्ध्यादिकर्मिकश्च ॥ तत्र मनस्कारादिमिकः। तत्र प्रथमकर्मिक एकाग्रतायां यावन्मनस्कारं न प्राप्नोति । चित्तैकाग्रतां न स्पृशति । ___ तत्र क्लेशविशुद्ध्यादिकर्मिकः। अधिगतेपि मनस्कारे क्लेशस्य चित्तं विमोचयितुकामस्य यल्ल[6]क्षणप्रतिसंवेदिनो मनस्कारस्यारम्भः प्रतिग्रहश्चाभ्यासः । अयं क्लेशविशुद्ध्यादिकर्मिकः । तत्र कृतपरिचयः कतमः। लक्षणप्रतिसंवेदिनं मनस्कारं स्थापयित्वा तदन्येषु षट्सु मनस्कारेषु प्रयोगनिष्ठापन्नेषु कृतपरिचयो भवति । ___ तत्रातिक्रान्तमनस्काराः(रः)प्रयोगनिष्ठाफलमन[7]स्कारे वेदितव्यः । अतिक्रान्तोऽसौ भवति । प्रमो(यो) गभावनामनस्कारं । स्थितो भवति । भावनाफले[1]तस्मादतिक्रान्तमनस्कार इत्युच्यते । अपि च कुशलं धर्म[८] छन्दमुपादाय । प्रयुज्य
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy