SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् . 283 द्वितीयं योगस्थानम् .. 283 परिनिष्पन्नो न पर्यवसानगतः ।। तत्र[2] कति योगस्य योगकरणीयानि। आह । चत्वारि । कतमानि चत्वारि । तद्यथा। आश्रयनिरोधः। आश्रयपरिवर्तः। आलम्बनपरिज्ञानं । आलम्बनाभिरतिश्च । तत्रत्राश्रयनिरोधः प्रयोगमनसिकारभावनानुयुक्तस्य यो दौष्ठुल्यसहगत आश्रयः। सोनुपूर्वेण निरुध्यते। प्रस्रब्धिसहगतश्चाश्रयः परिवर्त[3]ते । अयमाश्रयनिरोधोयमाश्रय परिवर्तः। योगकरणीयं । तत्रालम्बनपरिज्ञानमालम्बनाभिरतिश्च । अस्त्यालम्बनपरिज्ञानमालम्बनाभिरतिः। आश्रयनिरोधपरिवर्तपूवंगमं । यदा चालम्बनपरिज्ञानमालम्बना भिरतिमधिपतिं कृत्वा आश्रयो निरुध्यते । परिवर्त्तते ...च। अस्त्यालम्बनपरि[4]ज्ञानमालम्बनाभिरतिः । आश्रयविशुद्धिपूर्वंगमः । आश्रयविशुद्धिमधिपति 1. cp. Bodhi, p. 66 : अधिमुक्त्यधिष्ठानम्-अष्टविधम् । 2. cp. MSA, XIX.54 : अख्यानख्यानता ज्ञेया असदर्थसदर्थयोः । आश्रयस्य परावृत्तिर्मोक्षोऽसौ कामचारतः ।। असदर्थस्य निमित्तस्याख्यानता सदर्थस्य तथतायाः ख्यातता आश्रयपरावृत्तिवेदितव्या। तया हि तदख्यानं ख्यानं च । सैव च मोक्षो वेदितव्यः । किं कारणं । कामचारतः। तदा हि स्वतन्त्रो भवति स्वचित्तवशवर्ती प्रकृत्य व निमित्तासमुदाचारात् ।।; cp. XX-XXI.47, p. 185; cp. p. 186 : आश्रयपरिशुद्धिरात्मभावस्यादानस्थानत्यागवशितया ।; on आश्रय vide, SinoIndian Studies, I; EB, s.v. āśraya.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy