SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ द्वितीयं योगस्थानम् 277 -- तत्र श्र[2]वणाय वीर्य । यदश्रुतं शृण्वतः । पर्यवदापयतः। चेतसो [अ]भ्युत्साहः। अविन्यस्तप्रयोगता, एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यार्थं । चिन्तयतस्तुलयत उपपरीक्षमाणस्य । एवं प्रतिसंलयनप्रविष्टस्य कालेन कालं शमथविपश्यनां भावयत एवमहोरात्रानुयुक्तस्य चंक्रमनिषद्याभ्या[] [3] निवरणेभ्यश्चित्तं विशोधयतः । यश्चेतसोभ्युत्साहः । अविन्यस्तयागता (प्रयोगता) [i] एवं यथाश्रुतानां धर्माणामेकाकिनो रहोगतस्यायं चिन्तयत आलयदीर्घता तत्र । ___ उपायोपि चतुर्विधस्तद्यथा शीलसम्वरमिन्द्रियसंवरमधिपतिं कृत्वा सूपस्थितस्मृतिता। तथा चोपस्थितस्मृतेरप्रमादश्चेतस आरक्षा। [4] कुशलानां धर्माणां निषेवणा। तथा वा[5]प्रमत्तस्याध्यात्म चेतःशमथयोगः । अधिप्रज्ञञ्च धर्मविपश्यना [1] स चायं योगश्चतुर्विधः । षोडशाकारो भवति । तत्र श्रद्धया प्राप्तव्यमर्थमधिपतिं संप्राप्नोति । प्राप्तिमभिसंप्रत्ययात्कर्तुकामतामुत्पादयति । कुशलेषु धर्मेषु [1] स एवं कर्तुकामः । अहोरात्रानु[5]युक्तो विहरति । उत्साही । दृढपराक्रमः । तच्च वीर्यमुपादाय परिगृहीतमप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । सम्वर्त्तते । तस्मादिमे चत्वारो धर्मा योग इत्युच्यते ॥
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy