________________
276
श्रावकभूमौ नष्क्रम्यभूमिः
योगः। तद्यथा श्रद्धा, छन्दो, वीर्य, उपायश्च ॥
तत्र श्रद्धा द्विविधाधिष्ठाना - अभिसंप्रत्ययाकारा प्रसादाकारा च ॥ धर्म[8]युक्तिविचारणाधिष्ठाना पुद्गलानुभावाधिमुक्त्यधिष्ठाना च ॥
छन्दोपि चतुर्विधः । तद्यथा प्राप्तये [1] यथापीहैकत्यः उत्तरे विमोक्षस्पृहामुत्पादयति । विस्तरेण पूर्ववत् । परिपृच्छाये। यथापीहैकत्यः स्पृहामुत्पादयति विस्तरेण पूर्ववत्परिपृच्छाये। आराम गमनाय, विज्ञानां सब्रह्मचारिणां योगज्ञाना[9]मन्तिकमश्रुतस्य श्रवणाय, श्रुतस्य च पर्यवदानाय[i]. संभारसमुदागमाच्छन्दः। यथापीहैकत्यः शीलसम्वरपारिशुद्धये, इन्द्रियं संवरपारिशुद्धये, भोजने मात्र
ज्ञतायां, जागरिकानुयोगे, संप्रजानद्विहारिताया9A-8// मुत्तरोत्तरां स्पृहामुत्पादयति । //[1]अनुयोगाच्छन्दः ।
या (यः) सातत्यप्रयोगतायां सत्कृत्यप्रयो[गता]यां च मार्गभावनायां स्पृहामुत्पादयत्यभिलाषं कर्तुकामतामित्ययं चतुर्विधश्छन्दः। (इत्ययं चतुर्विधश्छन्दः) यदुत प्राप्तये। परिपृच्छनाय । - संभारसमुदागमाय । अनुयोगाय च ॥ . तत्र वीर्यमपि चतुर्विध[] तद्यथा श्र[वणा']य, चिन्तनाय, भावनाये। आवरणपरिशुद्धये च ।
1. Letters lost by pin-hold. 2. A repetition, should be deleted.