________________
द्वितीयं योगस्थानम्
275
विनिगृहति । न प्रकाशयति । येप्यस्य श्राव[4]का भवन्ति । गृहिणः, प्रवजिताश्च, तानपि योगप्रतियुक्तये आज्ञापयति । तत्कस्य हेतोर्मा, मैव ते सूत्रधरा, विनयधरा, मातृकाधरा, एतद्योगस्थानं श्रुत्वा सूत्रेवतारयेयुः । तच्च नावतारये (तरे)द्विनये, संदर्शयेयुः । तच्च न संदृश्यते । धर्मतया उपपरीक्ष्येत । तच्च धर्मतां विरोधयेत् । ते च ततो निदानम्[5]प्रतीता भवेयुरप्रतीतवचनैश्च सं (1) चोदयेयुः । अधिकरणानि चोत्पादयेयुः । एवमहं पुनरपि न सत्कृतः (1) स्यान्न गुरुकृतो, राज्ञां राजामात्राणां यावद्धनिनां श्रेष्ठिनां सार्थवाहानां, न च पुनर्लाभी स्यां चीवरपिण्डपात• शयनासनग्लानप्रत्ययभैषज्यपरिष्काराणामिति । स तामेव लाभसत्कारकामता[6]मधिपतिं कृत्वा अधर्मे धर्मसंज्ञी, विनिधाय संज्ञां रूपिणी]मधर्म धर्मतो दीपयति । संप्रकाशयति । तत्र येस्य दृष्ट्यनुमतमापद्यन्ते । तेप्यधर्मे । धर्मसंज्ञिनो भवन्ति । मन्दत्वान्मोहत्वात्ते अधर्मे धर्मसंज्ञिनो यथानुशिष्टा अपि, प्रतिपद्यमाना मिथ्याप्रतिपन्ना एव ते वेदितव्याः । अयमेवं रूपो मिथ्याप्रतिपत्तिकृतो[7]योगभ्रंशस्सद्धर्मप्रतिरूपको ह्यसद्धर्मः सद्धर्मस्यान्तर्धानाय [i] इतीमे चत्वारो योगभ्रंशा ध्यायिना भिक्षुणा योगाचारेण परिज्ञेया वर्जयितव्या: ॥
तत्र योगः कतमः। आह [1] चतुम्विधो