SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 274 श्रावकभूमौ नष्क्रम्यभूमिः चित्तमाराधयति । कुहनानुचरितया च चेष्टया कायवाक्यप्रतिसंयुक्तया, तस्य तेन हेतुभावेन, तेन प्रत्यये नोत्पद्यते । लाभसत्कारश्लोकः, स ज्ञातो भवति । 9B-7// //[1] महासुखो लाभी भवति । चीवरपिण्डपात शयनासन[ग्लानप्रत्य']यभैषज्यपरिष्काराणां, सत्कृतश्च भवति, गुरुकृतो, राज्ञां राजामात्राणां, यावत्सार्थवाहानां, अर्हत्सम्पत (द): । तस्यान्ता वर्तन्ते श्रावकाः, गृहिणः, प्रव्रजिताः । अपि अध्वादेन्तेषु ग्रेधं निगमयम्वा वर्त्तते (अप्यध्वान्तेषु ग्रामो निगमो वा वर्तते) वा[...]यतस्यैवं भवति । सन्ति ये श्रावका, गृहिप्रव्रजिता, ये [2]मयि संभावनाजाता येषां महत्संस (म)तः ते चेद्या (न्मा) मुपसंक्रम्य योगे मनसिकारे शमथविपश्यनाया[] प्रश्नं पृच्छेयुः । तेषां चाहं पृष्टो व्याकुर्यां न जानामीत्येवं सति या संभावना . सा च हीयेन्न (हीयेत, न)च स्यामर्हत्सम्मतः, यन्न्वहं स्वयमेव चिन्तयित्वा, तुलयित्वोपपरीक्ष्य योगं व्यवस्थापयेयं ।। स एतमेवार्थमधिपति कृ[3]त्वा लाभसत्काराभिगृद्ध एकाकी रहोगतः स्वयमेव चिन्तयित्वा, तुलयित्वा, तुलयित्वोपपरीक्ष्य योग व्यवस्थापयति । स चास्य योगो न सूत्रे भवति । न विनये संदृश्यते । धर्मतां च विलोमयति । मयेते (य एते) भिक्षवः । सूत्रधरा, विनयधरा, मातृकाधरास्तेषां तद्योगस्थानं 1. Letters lost by pin-hold.
SR No.002436
Book TitleShravak Bhoomi
Original Sutra AuthorN/A
AuthorKarunesha Shukla
PublisherKashi Prasad Jayaswal Research Institute
Publication Year
Total Pages618
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy