________________
264
श्रावकभूमौ नष्क्रम्यभूमिः
विरज्यते । विरक्तो विमुच्यते । विमुक्तो[अ]नुपादाय परिनिर्वाति । एवमिमानि शीलानि भावितानि अग्रतायामुपनयन्ति । यदुतानुपादाय. परिनिर्वाणमियमासां शिक्षाणामानुपूर्वी'।
तत्र केन कारणेनाधिशीलं शिक्षा अधिशीलमि[3]त्युच्यते । एवमधिचित्तमधिप्रज्ञमधिकारार्थेन (राधिकारार्थेन') च । ___ तत्र कथमधिकारार्थेना (ना अ)धिचित्तमधिकृत्य यच्छीलं सा अधिशीलं शिक्षा। अधिप्रज्ञमधिकृत्य यश्चित्तसमाधिः । सा अधिचित्तं शिक्षा। .
क्लेशप्रहाणमधिकृत्य यज्ज्ञानं दर्शनं । सा अधिप्रशं शिक्षा।
या चाधिचित्तं । या चाधिप्रज्ञं शिक्षा। एताः शिक्षाः अस्मिन्नेव शासने असाधारणा इतो बाह्यरेवमधिकार्थेन [1] ____ अस्ति पुनरधिचित्तं शिक्षा या अधिप्रज्ञं शिक्षाया आवाहिका, अस्त्यधिप्रज्ञं शिक्षा या अधिचित्तं शिक्षाया आवाहिका। तद्यथा। आर्यश्रावकः । अला[5]भी मौलध्यानानां, शैक्षो, दृष्टपदः, ततः पश्चाद्भावनाप्रहातव्यानां क्लेशानां प्रहाणाय प्रयुज्यमान[:]स्मृति
संबोध्यंगं भावयति । इयमधिप्रज्ञं शिक्षा (।) अधिचित्तं 1. cp. SVA, p. 123, para 1. 2. A repetition, should be deleted.